"चैतन्यः महाप्रभुः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding hi,pt,pl,fr,he,ru,es,ta,hu,uk,it,id,de,bn,cs,gu,mr,te,nl,sv
(लघु) r2.7.3) (Robot: Adding or:ଚୈତନ୍ୟ ମହାପ୍ରଭୁ; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Chaitanya-Mahabrabhu-at-Jagannath.jpg|thumb|चैतन्य महाप्रभुः]]
चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन वैष्णवधर्मगुरुः । समाजपरिवर्तयिता च । तेन अधुनातन-बाङ्ग्लादेशः, पश्चिमवङ्गस्य राज्यानि, बिहार्, झार्खण्ड्, मणिपुर, असमप्रदेशेषु कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः गौडीयवैष्णवभक्ताः तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् । भागवतपुराण-भगवद्गीतयोः तत्त्वस्य आधारः तेन आश्रितः । हरे कृष्ण महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । संस्कृते तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।
 
सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना, निम्बवृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः ग्रन्थाः उपलभ्यन्ते । तेषु कृष्णादास कविराज गोस्वामिना लिखितं चैतन्यचरितामृतं, वृन्दावनदसेन लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।
 
== जीवनम् ==
 
चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी । चैतन्य द्वितीयः पुत्रः आसीत् । ते पश्चिमवङ्गे नाडियाप्रदेशे नवद्वीपे अवसन् । चैतन्यस्य पितामहः मधुकरमिश्रः मूलतः ओरिस्साराज्यस्य जयपुरप्रदेशीयः । ततः तेन पश्चिमवङ्गं प्रति आगतम् ।
 
[[Fileचित्रम्:Chaitanya Birth Place.jpg|thumb|left|चैतन्यस्य जन्मस्थानम्]]
तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः कृष्णजपे नितराम् आसक्तः आसीत् । संस्कृताध्ययने ज्ञानार्जने च सः विशेषतया आसक्तिमान् आसीत् । पितृकार्यनिर्वहणाय गयां प्रति गमनावसरे तेन गुरुः ईश्वरपुरि अमिलत् । तस्मात् सः गोपालकृष्णमन्त्रस्य उपदेशं प्राप्तवान् । एतस्मात् मेलनात् तस्य व्यक्तित्वं नितरां परिवर्तितं जातम् । ज्ञानी सः भक्तरूपेण परिवर्तितः आसीत् । तस्य प्रत्यागमनानन्तरं तं दृष्ट्वा सर्वे आश्चर्यान्विताः अभवन् । अचिरात् सः तत्रत्यवैष्णवसमूहस्य नेता जातः ।
 
पङ्क्तिः १५:
चैतन्यस्य साम्प्रदायिकानुयायिभिः एवं विश्वस्यते - चैतन्ये उभयव्यक्तित्वम् आसीत् - कृष्णप्रेम्णा मत्तः भक्तः, राधया सह अविनाभावेन युक्तः स्वयं कृष्णश्च । १६ शतकस्य लेखकाः उल्लिखन्ति यत् चैतन्येन कृष्णस्य विश्वरूपदर्शनं स्वयं बहुधा प्रदर्शितं विशेषतया नित्यानन्दप्रभु-अद्वैताचार्ययोः उपस्थितौ ।
 
== उपदेशः ==
चैतन्येन 'शिक्षाष्टकम्' इति कश्चन ग्रन्थः संस्कृतेन लिखितम् । तस्य उपदेशस्य सारसङ्ग्रहः 'दशमूलम्' इति कथ्यते । ते -
:# कृष्णः अन्तिमः परमसत्यस्वरूपः ।
पङ्क्तिः २८:
:# कृष्णाशीर्वादः एव प्राप्तव्या निधिः ।
 
[[Fileचित्रम्:Chaitanya sankirtan.jpg|thumb|चैतन्यसङ्कीर्तनम्]]
== चैतन्यसम्प्रदायः ==
मध्वाचार्यसम्प्रदायेन दीक्षितः चैतन्यः शङ्करसम्प्रदायेन संन्यासं स्व्यकरोत् इति कारणतः तदीयानि तत्त्वानि वैष्णवसम्प्रदायतः भिन्नः इति परिगण्यते । सः ईश्वरपुरिणा मन्त्रोपदेशं केशवभारत्या संन्यासदीक्षां च स्व्यकरोत् । एतौ उभौ अपि शङ्करस्य अद्वैतवादिनौ ।
 
पङ्क्तिः ४०:
चैतन्यस्य भक्ति-आन्दोलनस्य आरम्भारभ्य हिन्दवः यवनाः च अस्मिन् भागं वहन्ति स्म । अनेन विशालमनोभावेन आकृष्टः भक्तिविनोद ठाकूरः २० तमे शतके स्वस्य गौडीयमठे भक्तिसिद्धान्तसरस्वती संस्थापिता । ए सि भक्तिवेदान्त स्वामी प्रभुपादेन पाश्चात्यदेशं प्रति चैतन्यतत्त्वानि नीतानि । अयं भक्तिसिद्धान्तसरस्वती ठाकुरशाखायाः अनुयायी । भक्तिवेदान्तस्वामी समग्रे जगति चैतन्यस्य उपदेशानां प्रसाराय आन्दोलनम् आरब्धवान् - इस्कान् (International Society for Krishna Consciousness) नाम्ना । सारस्वतगुरवः आचार्याः, गोस्वामीवंशस्य सदस्याः, मथुरा-पश्चिमवङ्ग-ओरिस्सादिषु प्रदेशेषु निवसन्तः भक्ताः, चैतन्ये आदरवन्तः अन्ये च कृष्ण-चैतन्ययोः मन्दिराणि पाश्चात्यदेशेषु २० तमशतकस्य अन्तिमभागे निर्मितवन्तः । २१ तमे शतमाने बह्वीषु शैक्षणिकसंस्थासु विष्णवभक्तिः कृष्णतत्त्वञ्च अध्ययनविषयः जातः अस्ति ।
 
== सांस्कृतिकपरम्परा ==
चैतन्यस्य सांस्कृतिकपरम्परा वङ्गराज्ये ओरिस्साराज्ये च दृढमूलं जातमस्ति । तत्रत्य निवासिनः बहवः तं कृष्णस्य अवतारमिति मत्त्वा पूजयन्ति प्रतिदिनम् । वङ्गस्य पुनरुत्थापकः इति कैश्चित् मन्यते । प्रसिद्धभाषातज्ञेन सलिमुल्लखानेन उच्यते - ''षोडशशतकं चैतन्यदेवस्य एव कालः । वङ्गे आधुनिककालः तदा एव आरब्धः ।' इति ।
== बाह्यशृङ्खला ==
* [http://www.gaudiya.com/ Gaudiya Vaishnavism - The Tradition of Chaitanya]
* [http://www.krishna.com/ Krishna.com] "All about Krishna." Teachings, history, art, MP3s.
* [http://www.bbt.info/ Bhaktivedanta Book Trust] Website containing information about books authored by A. C. Bhaktivedanta Swami Prabhupada
* [http://www.salagram.net/parishad43.htm Sri Chaitanya Mahaprabhu: His Life and Precepts]
* [http://lordcaitanya.com/en1 The Teachings of Lord Chaitanya] Online Book
* [http://srimadbhagavatam.com/11/5/32/en1 Srimad Bhagavatam 11.5.32] A Verse from the Bhagavata Purana, which refers to Chaitanya Mahaprabhu
* [http://veda.harekrsna.cz/encyclopedia/caitanya.htm Scriptural Statements/Predictions regarding Caitanya Mahaprabhu's birth]
* [http://caitanyacaritamrta.com/introduction/en1 Chaitanya Charitamrta Online] Biography
* [http://veda.harekrsna.cz/encyclopedia/parampara2.htm#22 List of biographical works and other sources]
* [http://scsmath.com/docs/golden_volc_excrpt-tragedy.html Golden Volcano — A Tragedy of Separation] The Golden Volcano of Divine Love (by Srila B.R. Sridhar Maharaj)
* [http://www.theosophical.ca/SreeChaitanyaHWBM.html Lord Gouranga and His Message of Devotion] (theosophical.ca)
* [http://www.kamat.com/umbrella/chaitanya.htm Chaitanya Mahaprabhu] By Mahashakti Dasa
* [http://dlshq.org/saints/gauranga.htm Lord Gauranga] – biography by [[Swami Sivananda]]
 
* [[भारतीय-सूची]]
 
[[वर्गः:भारतीयदार्शनिकाः]]
 
[[bn:চৈতন্য মহাপ্রভু]]
Line ७१ ⟶ ७५:
[[mr:चैतन्य महाप्रभू]]
[[nl:Chaitanya]]
[[or:ଚୈତନ୍ୟ ମହାପ୍ରଭୁ]]
[[pl:Ćajtanja Mahaprabhu]]
[[pt:Caitanya]]
Line ७८ ⟶ ८३:
[[te:చైతన్య మహాప్రభు]]
[[uk:Чайтанья Махапрабгу]]
 
 
*[[भारतीय-सूची]]
 
[[वर्गः:भारतीयदार्शनिकाः]]
"https://sa.wikipedia.org/wiki/चैतन्यः_महाप्रभुः" इत्यस्माद् प्रतिप्राप्तम्