"पारसनाथः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
अयं पारसनाथपर्वतः जैनानां पवित्रं क्षेत्रम् । '''पारसनाथः''' इति पार्श्वनाथस्य अपभ्रंशरूपम् । [[जैनः|जैनसम्प्रदायस्य]] सर्वस्य अपि विभागस्य परमश्रेष्ठं क्षेत्रम् एतत् । एतत् [[बिहारम्|बिहारस्य]] [[हजारिबाग्-मण्डलम्|हजारिबाग्-मण्डले]] अस्ति ।
[[File:Parshwanath.jpg|thumb|'''पाश्वनाथदेवः''']]
जैनसम्प्रदाये २४ जनाः तीर्थङ्कराः सन्ति । तेषु [[आदिनाथः]] [[कैलासः|कैलासे]], [[वासुपूज्यः]] [[चम्पापुरी|चम्पापुर्यां]], [[नेमिनाथः|नेमीनाथः]] [[गिरिनारम्|गिरिनारे]], अन्तिमः तीर्थङ्करः [[महावीरः]] [[पावापुरी|पावापुर्यां]] च निर्वाणं प्राप्नुवन् । २३ तमः तीर्थङ्करः [[पार्श्वनाथः]] अत्र निर्वाणं प्राप्तवान् । तस्मात् कारणात् एतत् पारसनाथक्षेत्रम् इति उच्यते । जैनग्रन्थेषु सम्मेदगिरिः, सम्मेदशिखरं, सम्मेदाचलः इति वा अस्य पर्वतस्य उल्लेखः कृतः दृश्यते । अस्य शिखराग्रे पार्श्वनाथमन्दिरम् अस्ति । मन्दिरे पार्श्वनाथस्य ध्यानावस्थायाः मूर्तिः अस्ति । मूर्तेः उपरि सर्पफणः अस्ति । अस्मिन् मन्दिरे महावीरस्य मूर्तिः पादुका च अस्ति । अन्येषाम् अपि मुक्तात्मानां चरणचिह्नानि अपि अत्र पूज्यन्ते । पार्श्वनाथस्य अपेक्षया पूर्वं निर्वाणं प्राप्तवतां ९ तीर्थङ्कराणाम् अपि मन्दिराणि सन्ति अत्र ।
 
"https://sa.wikipedia.org/wiki/पारसनाथः" इत्यस्माद् प्रतिप्राप्तम्