"चण्डीगढ़" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Chandigarh in India (disputed hatched).svg|thumb|]]
[[File:Chand2.jpg|thumb|400px|right|शिलोद्यानस्य किञ्चन दृश्यम्]]
[[File:Waterfall at Rock Garden, Chandigarh.jpg|thumb|right|300px|शिलोद्यानस्थः जलपातः]]
'''चण्डीगढ़''' केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति ॥ एतद् नगरं [[पञ्जाब्|पञ्जाब]][[हरियाणा]]राज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति।
चण्डीगडनगरं (Unique City) सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । [[भारतम्|भारत]][[पाकिस्तानम्|पाकिस्तानयोः]] विभाजनसमये [[लाहोर|लाहोरनगरं]] पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् ।
प्रथमः प्रधानमन्त्री श्री [[जवाहरलालनेहरुः]] क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे [[हरियाणा]] राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् ।
प्रथमः प्रधानमन्त्री श्री [[जवाहरलालनेहरुः]] क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे [[हरियाणा]] राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति ।
नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति ।
==निर्माणवैशिष्ट्यम् ==
चण्डीगडनगरं ग्रिड् स्टैल् सेक्टर् रीत्या निर्मितम् अस्ति । अत्रत्याः हरितपट्टिकाः अत्याधुनिकाः नवनवीनाः च । अस्य नगरस्य विस्तारः ११४ चतुरस्र कि.मीटरमितः अस्ति । मुख्यतया त्रीणि उपनगराणि, २७ ग्रामाः च अस्मिन् नगरे अन्तर्भवन्ति । वायव्ये [[सिवालिक् पर्वतावली]] अस्ति । नगराय पेयजलयोजनाय सुखान् सरोवरस्य निर्माणं कृतम् अस्ति । [[भारतम्|भारते]] निर्मितेषु कृतकजलाशयेषु एषः जलाशयः अपि अन्यतमः अस्ति ।
==चण्डीगढनगरस्य उद्यानानि==
चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति ।फलपुष्पानां विषये आसक्तिमतां चण्डीगडनगरं नन्दनवनमिव अस्ति । आलङ्कारिकसस्यानाम् आलङ्कारिकपुष्पाणां च वस्तुसङ्ग्रहालयः इति एतत् नगरं वदन्ति । सप्तविभागेषु व्याप्तम् एतत् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि द्रष्टुं न शक्यते ।
उद्यानेषु डा [[झकिर हुसैन]] रोजगार्डन्, शान्तिकुञ्ज इत्यादीनि निर्मितानि सन्ति । प्राणिनां विविधाः आकृतयः, तन्त्रिभिः निर्मिताः प्राणिरचनाः टोपिनीनामके वाटिकाप्रदेशे सन्ति । म्याङ्गोगार्डन् उत्तमं प्रेक्षणीयस्थलमस्ति । पार्श्वे राक् गार्डन् म्यूसियं नामकः कलासङ्ग्रहालयः अस्ति । सोमवासरे प्रवेशः नास्ति ।
[[जवाहरलालनेहरुः]] चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यकालीनं विश्वासपात्रं नवीनमनगरम् इति वर्णितवान् अस्ति । इदानीम् एतत् प्रमुखनगरमिति विश्वे घोषितम् अस्ति ।
==राकगार्डन्==
निष्प्रयोजकवस्तुभिः निर्मितं विस्मयजगत् इति कथ्यते । नगरप्रदेशे यानि निष्प्रयोजकानि वस्तूनि लभ्यन्ते तानि सङ्गृह्य अस्मिन् उद्याने उत्तमकलाकृतयः निर्मिताः सन्ति । नेकचन्दनामकः एतत् विस्मयकारि कार्यं कृतवान् ‘Nek Chand’s Kingdom’ इति एतत् उद्यानं प्रसिद्धम् अस्ति ।न केवलं भारते अपि तु विश्वेऽपि एतादृशम् उद्यानम् अन्यत् नास्ति ।
भाग्नानि कङ्कणानि , मृदानिर्मितपात्राणां भागाः, नलिकानां भागाः , विद्युत् तन्त्र्यः, विविधशिलाखण्डाः अत्र सुन्दाकलाकृतिरुपं प्राप्तवन्तः सन्ति । नेकचन्दः एकः एव एतां अद्भुतवाटिकां निर्मितवान् अस्ति । क्रिस्ताब्दे १९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यनिरीक्षकः आसीत् । बहु अध्ययनमपि न कृतवान् आसीत् । सर्वैः त्यक्तानि त्याज्यवस्तूनि अवेक्ष्य एतानि उपयुज्य किमपि कर्तुं शक्यते वा इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षाणि यावत् कार्यं कृत्वा राक् गार्डन् निर्माण कृतवान् । क्रिस्ताब्दे १९७६ तमे वर्षे एतत् कार्यं समाप्तम् अभवत् ।
महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति ।
अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति ।
==चित्रशाला==
<gallery>
Image:RockGardenEntrance.jpg|प्रवेशद्वारम्
Image:RockGardenRock.jpg|स्थापनादिनस्य स्मारकम्
Image:RockGarden.jpg|राक् गार्डन्
Image:Dancing girls at Rock Garden, Chandigarh.jpg| शिलोद्याने नृत्यन्त्यः बालिकाः
Image:Decorated wall at Rock Garden, Chandigarh.jpg|अलङ्कृता भित्तिः
</gallery>
 
==विमानमार्गः==
[[देहली]]तः विमानसम्पर्कः अस्ति ।
==धूमशकटमार्गः==
देहली-चण्डीगड अन्तरं २५४ कि.मी अस्ति ।देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति ।
==वाहनमार्गः==
प्रति-अर्धाघण्टम् एकं वाहनं [[देहली]]तः अस्ति । [[शिम्ला]],[[मनाली]], [[धर्मशाला]] नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः ।
 
 
 
"https://sa.wikipedia.org/wiki/चण्डीगढ़" इत्यस्माद् प्रतिप्राप्तम्