"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८०:
[[File:Bidar-district.png|thumb|right|400px|बीदरमण्डलम्]]
बीदर् मण्डलं [[कर्णाटक]]स्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर् इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य बसवकल्याणतः आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । वायुसेनायाः प्रशिक्षणकेन्द्रं कर्णाटकस्य अभिमानस्य विषयः एव ।
अस्य मण्डलस्य चारित्रिकं महत्वम् अस्ति । अत्रैव बसवण्णमहोदयस्य बहमनिसुल्तानानां च काले [[नवशिलायुग]]स्य अवशेषाः लब्धाः । [[राष्ट्रकूटाः|राष्ट्रकूटवंशजाः]], [[देवगिरियादवाः]], [[काकतीयाः]] एतस्य मण्डलस्य शासनं कृतवन्तः । मण्डलस्य बसवकल्याणं चालुक्यानां राजधानी आसीत् । क्रि.श. १४२४ तमे वर्षे बीदरनगरं बिजापुरस्य बहमनिसुल्तानानां राजधानी अपि आसीत् । क्रि.श. १६५९ वर्षे एतत् मोघल् नृपस्य औरङ्गजेबस्य हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५६ तमे वर्षे कर्णाटकस्य पुनर्विभागसमये बीदरमण्डलं निरूपितम् । [[कर्णाटक]]स्य उत्तरे भागे प्रसिद्धं मण्डलम् अस्ति । पूर्वं हैदराबादसंस्थानस्य अधीने आसीत् ।
 
==विस्तीर्णता==
५४४८ च.कि.मी. मिता।
 
==उपमण्डलानि -५==
बीदर, भाल्की, औराद, हुमनाबाद [[बसवकल्याणम्]]
 
==भैगोलिकता==
भौगोलिकतया बीदरमण्डलं [[हैद्राबाद्कर्णाटक]]भागे विराजते । एतत् भारतदेशस्य दखन्प्रस्थभूमेः भागः अस्ति । गिरिकन्दररहिता विशाला प्रस्थरभूमिः अस्य मण्डलस्य विशेषता । समुद्रतटात् ६१४मी. औन्नत्ये प्रतिष्ठितम् एतत् मण्डलम् । वार्षिकः वृष्टिप्रमाणः ९०७.५ से.मी. अस्ति । औराद्-भाल्किप्रदेशे भूमिः कृष्णमृत्तिकायुता अस्ति । अस्मिन् मण्डले कुत्रापि खनिजनिक्षेपः नास्ति ।
 
==नद्यः==
[[माञ्जरा]] मण्डलस्य एका प्रमुखा नदी अस्ति । गोदावर्याः उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । [[कारञ्जा]] इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । बसवकल्याणे उद्भूता [[मुल्लारी]] नदी गुल्बर्गमण्डलं प्रविशति । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।
 
==संस्कृतिः==
अस्मिन् मण्डले हैन्दवः, क्रैस्ताः, महम्मदीया, सिख्खाः च वसन्ति । मण्डलस्य पूर्वदिशि दुल्हन् दर्वाजदुर्गम् अस्ति । अधो भागे अग्रहारः इति ग्रामः अस्ति । मण्डलस्य उत्तरभागे मङ्गलपेटेप्रदेशः क्रैस्तानां क्षेत्रम् अस्ति । प्रतिवर्षम् अत्र तेषां महायात्रा प्रचलति । मण्डलस्य औराद, सन्तपुर, हलबर्गा, जलसङ्ग्वि, तालमलगि, हुलसूर, कवडियाल, हुमनाबादप्रदेशेषु बहूनि चर्चभवनानि सन्ति । नरसिंहझरणीक्षेत्रे जले नरसिंहस्वामिमन्दिरम् अस्ति । बीदर् मण्डलस्य लघुकन्दरे नानक् झरा इति तीर्थं प्रवहति । एतत् सिख्खानां अतिपवित्रं स्थलम् अस्ति । वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।
 
==प्रसिद्धाः व्यक्तयः==
डा.चेन्नबस पट्टदेवरु, रामचन्द्र वीरप्पा, प्रो.वीरेन्द्र सिम्पि । एम्.जि.गङ्गन् पल्लि, ईश्वर खण्ड्रे, इत्यादयः प्रसिद्धाः ।
 
==दर्शानीयानि स्थानानि==
[[File:Entrance to the Bidar Fort.JPG|left|300px|बीदरदुर्गम्]]
Line ९९ ⟶ १०५:
मैलारमल्लणगुडि, नरसिंहझरणी, नानकझरा, बीदरदुर्गं, रङ्गीनमहल्, गगनमहल्, एकस्तम्भमसीदि, बृहत्फिरङ्गि, वस्तुसङ्ग्रहालयः, महमद्गवान् ग्रन्थालयः, चौबारा, हब्सीकोटदारा, [[कारञ्जाजलबन्धः]], जलसङ्गीदेवालयः, औषधीयवनं, वीरभद्रदेवालयः, [[अनुभवमण्टपम्]], अक्कनागम्मनगवि, त्रिपुरान्तकसरः, बसवकल्याणदुर्गं, भाल्किहिरेमठसंस्थानम् [[बीदर]], पापनाशिनी शुक्लतीर्थं, माणिकनगरं, भाल्की, खानापुरं जलसङ्ग्वि हुमनाबाद [[बसवकल्याणम्]] इत्यादिनि दर्शनीयानि स्थानानि सन्ति ।
 
===[[बीदर]]नगरम्(०८४८२)===
१) [[बीदर]]नगरम्(०८४८२) -पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति ।१) बीदर ०८४८२
[[कर्णाटकम्|कर्णाटकराज्ये]] स्थितेषु विशिष्टक्षेत्रेषु बीदरनगरम् अपि अन्यतमम् अस्ति । बिदरीवर्णचित्रकलातः नगरस्य बीदर इति नाम आगतमस्ति । सर्वधर्मियानाम् एतत् प्रमुखं क्षेत्रम् अस्ति । अत्र दर्शनीयानि स्थानानि नाम-- नरसिंहगुहा, नानकझरा, रङ्गीनमहल्, बीदरदुर्गं, महम्मदगवान् मदरसा इत्यादिकम् ।
नरसिंहगुहान्तरदेवालयतः नरसिंहनिर्झरतः सततं जलं प्रवहति ।
 
बीदरतः २ कि.मी. दूरे अनन्तशयनमन्दिरम् अतीवसुन्दरम् अस्ति । पापनाशिनीक्षेत्रे स्वयम्भूः शिवलिङ्गः अस्ति । बीदरतः ६४ कि.मी दूरे बसवकल्याणनगरम् अस्ति । पूर्वम् एतत् राज्ञः बिज्जलस्य राजधानी आसीत् । श्री [[बसवेश्वरः|बसवेश्वरस्य]] कार्यक्षेत्रं च आसीत् । ‘अनुभवमण्डपम्’ इति धार्मिककेन्द्रम् अत्र आसीत् ।
 
बीदरनगरे पूर्वं बहमनीसुल्तानानां प्रशासनम् आसीत् । बीदरदुर्गम् अधुनापि सुभद्रम् अस्ति । अस्य समीपे ऐतिहासिकं प्रसिद्धं महम्मदगवान् मदरसा पर्षियन् शिल्पशैल्या निर्मितम् अस्ति । क्रिस्ताब्दे १४७२ तमे वर्षे निर्मितमेतत् । इदानीं भग्नम् । अवशेषाः सन्ति । पूर्वम् अत्र उपन्यासमन्दिरम् उपाध्यायानां छात्राणां च वसतिगृहाणि ग्रन्थालयाः च आसन् । ‘मीनार’नामकानि उन्नतानि दर्शनस्थानानि च अत्रासन् ।
अत्रैव सोलाकम्बमसीदि(षोडशस्तम्भात्मिकमस्जिद्), एकमिनारमस्जिद् च दर्शनीयानि शिल्पानि । वसत्यर्थम् अनेकानि उपाहारवसतिगृहाणि सन्ति । बीदरजिल्लाकेन्द्रम् अस्ति ।
Line १०९ ⟶ ११७:
:बेङ्गळूरुतः ६७० कि.मी
 
२)=== पापनाशिनी ===
 
बीदरतः ३ कि.मीटरदूरे पापनाशिनी क्षेत्रम् अस्ति । अत्र दाशरथिरामेण स्थापितं बृहत् शिवलिङ्गम् अस्ति । शुक्राचार्यः अत्र शिवं पूजितवान् । अत्र पापपरिहारकारकं सरः अस्ति ।
Line ११६ ⟶ १२४:
:बीदरतः यादगिरीमार्गे ३ कि.मी ।
 
३)===शुक्लतीर्थम्-===
पूर्वं [[शुक्राचार्यः]] अत्र तपः आचरितवान् । अतः तस्य स्थलस्य शुक्लतीर्थमिति नाम अस्ति ।बीदरदुर्गसमीपे शुक्लतीर्थमिति पवित्रं तीर्थस्थानम् अस्ति । [[शुक्लाचार्यः।शुक्लाचार्यस्य]] तपसः प्रभावेण निर्मितमेतत् । दशमुख[[रावणः]] अपि शुक्लमुनेः दर्शनार्थम् अत्र आगतवान् ।
 
४) ===[[नानकझरा]] -===
 
सिखधर्मस्थापकः श्री[[गुरुनानकः]] दक्षिणभारतप्रवासार्थं बीदरनगरम् आगतवान् आसीत् । अत्र जलाभावं वीक्ष्य पादरक्षान्तेन पर्वतम् अपसार्य निर्झरं निर्मितवान् । अत्र जले रोगनिवारकशक्तिः अस्ति । क्षेत्रं बहु विस्तृते उद्याने अस्ति । पञ्चशतकेभ्यः एतत् क्षेत्रं बहुप्रसिद्धम् अस्ति।
 
५) जलसङ्ग्वी- जलसङ्ग्विप्रदेशे कल्याणचालुक्यविक्रमादिन्येन निर्मितम् ईश्वरमन्दिरं शिल्पकलावैभवपूर्णम् अस्ति । विविधभङ्ग्यां शिलाबालिकाः तिष्ठन्त्यः [[बेलूरु]]शिलाबालिकानां स्मरणं कुर्वन्ति ।
===जलसङ्ग्वी===
 
५) जलसङ्ग्वी- जलसङ्ग्विप्रदेशे कल्याणचालुक्यविक्रमादिन्येन निर्मितम् ईश्वरमन्दिरं शिल्पकलावैभवपूर्णम् अस्ति । विविधभङ्ग्यां शिलाबालिकाः तिष्ठन्त्यः [[बेलूरु]]शिलाबालिकानां स्मरणं कुर्वन्ति ।
 
==मार्गः==
धूमशकटनिस्थानमस्ति । [[बेङ्गळूरु]]-[[परभणी]]मार्गः ।
 
===वाहनमार्गः===
रायचूरुतः ३५८ कि.मी. । [[बेङ्गळूरु]]तः ७३२ कि.मी । [[गुल्बर्गा]]तः १०४ कि.मी.। [[हैदराबाद्|हैदराबादतः]] अपि निकटे एव वर्तते ।
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्