"शृङ्गाररसः" इत्यस्य संस्करणे भेदः

(लघु) श्रृङ्गाररसः इत्येतद् शृङ्गाररसः इत्येतत् प्रति चालितम्।
No edit summary
पङ्क्तिः १:
==व्युत्पत्तिः==
गत्यर्थकात् 'ऋ'धातोः पृष्ठतः 'शृङ्ग'इत्येतस्य उपपदप्रयोगेण, 'अण्'प्रत्ययस्य योजनेन च सह 'शृङ्गार'शब्दः निष्पन्नः भवति ।<br />
'''शृङ्गं-कामोद्रेकम् ऋच्छति-गमयति इति शृङ्गारः''' इत्येतया व्युत्पत्त्या अयं शब्दः सिद्धः भवति । यः रसः सामाजिकस्य मनसि कामोद्रेकं जनयेत् सः रसः 'शृङ्गार' इति निर्दिश्यते ।
'''शृङ्गारः''' 'रसानां राजा' इति कथयन्ति ।
==शृङ्गारप्रकाशे==
भोजराजः स्वस्य ग्रन्थे 'शृङ्गारप्रकाशे'शृङ्गारमात्रमेव रसः इति एवं प्रतिपादयति
<poem>
रसोऽभ्मानोऽहङ्कारः शृङ्गार इति गीयते ।
योऽर्थस्तस्यान्वयात् काव्यं कमनीयत्वमश्नुते ॥
अर्थः - आत्मगुणः अहङ्कारः आस्वाद्यः सन् रसः इति निर्देशं प्राप्नोति । अदृष्टशाली एव एव इदम् अनुभोक्तुम् अर्हति । सः भवति रसिकः । सः अभिमानबलेन रति-हास-क्रोधादीन् भावान् अनुभवति । अहङ्कारः रसिकम् अनुभवस्य शृङ्गं नाम शिखरं प्रति प्रापयति इत्यतः शृङ्गारमात्रमेव 'रसः' इति व्युत्पत्तिवैचित्र्येण विचारशक्त्या च प्रतिपादयति । किन्तु अनेके जनाः इदं नानुमोदयन्ति ।
==नाट्यशास्त्रे==
'''शृङ्गारः रतिस्थायिभावप्रभवः''' इति शृङ्गाररसस्य परिचयं करोति भरतमुनिः । अयम् उज्ज्वलवेषेण युक्तः भवति । स्त्री-पुरुषहेतुकश्च भवति ।
==सङ्गीतरत्नाकरे दशरूपके च===
सङ्गीतरत्नाकरे, धनञ्जयरचिते दशरूपके च शृङ्गारस्य परिचयः एवमस्ति - शृङ्गारः नवरसेषु आदिमः, जनप्रियश्च ।
स्त्री पुंसयोरुत्तमयोः यूनोः पूर्णं सुबोधया ।
प्रारम्भात् फलपर्यन्तव्यापिनी स्मरसम्भृता ॥
संविदोरैक्यसम्पत्या क्रीडात्र स्थायिनी रतिः । (सङ्गीतरत्नाकरः)
रम्यदेश-कला-काल-वेष-भोगादिसेवनैः ।
प्रहृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितः ॥ (दशरूपकम्)
अर्थः - सुन्दरदेश-कला-वेष-भोगादीनां द्वारा परस्परम् अनुरक्तयोः युवक-युवत्योः जायमानः प्रमोदात्मकः भावः एव रतिः । स्त्रीपुरुषयोः परस्परं प्रेम एव रतिः । अनया रतिस्थाय्या जायमानः रसः एव शृङ्गाररसः । तन्नाम आलम्बन-उद्दीपनादिभिः विभावैः उदयमानैः आलिङ्गनालोकनादिभिः विविधैः अनुभावैः युक्ताः रोमाञ्चनादयः स्थायिभावाः उत्पद्यन्ते ।
 
 
 
श्रृङ्गारस्य रतिः स्यायिभावः भवति । नायकयोः र्हृदये जायमानस्संभोगविषयकः इच्छा विशेषः रतिः । स्त्री पुंसयोरन्योन्याऽऽलम्बनकः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिरिति रसगङ्गाधरो निर्वक्ति । इयं रतिः रङ्कुर-पल्लव- कलिका –प्रसून-फल-भोगावस्थासु क्रमशो प्रेम –मान- प्रणय –स्नेह- राग- अनुरागनामभिर्व्यवह्रियते । आसु अष्टासु अवस्थासु, आद्याः पञ्चावस्थाः पूर्वरागे, षष्ठावस्था सम्भोगे च सम्भवति । प्रथमं नायिकायां रतेः प्रादुर्भावः, पश्चात्तदिङ्गितैर्नायकस्य अनुरागः, अनन्तरं तयोस्संयोगः इति क्रमेण वर्णनं निसर्गरमणीयमिति रुद्रटः प्रोवाच ।
 
"https://sa.wikipedia.org/wiki/शृङ्गाररसः" इत्यस्माद् प्रतिप्राप्तम्