"काल्काशिम्लाधूमशकटयानम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४७:
युनेस्कोसमितेः अधिकारिणः कालकाशिमलायानस्य प्रवासं कृत्वा परिशीलनं कृतवन्तः । दार्जिलिङ्गस्य (दुर्जयलिङ्गम्) निस्थानस्य पश्चात् किञ्चिन्निस्थानम् अस्ति यत् स्वयम् अतिविशिष्टम् । अस्य धूमशकटयानमार्गस्य ऐतिहासिकं महत्त्वं परिगणयन्तः युनेस्कोसदस्याः विश्वपरम्परास्थनस्य गौरवं प्राप्स्यति इति विश्वासं प्राकटयन् । अन्ततः क्रि.श. २००८तमवर्षस्य जुलैमासस्य २४तमे दिने विश्वपरम्परास्थानमिति उद्घुष्टम् । क्रि.श. १९६०तमे काले चलनारब्धं बाष्पचालितयन्त्रस्य रेल् यानम् ऐतिहासिकं स्मारकम् इति मत्वा अद्यापि चालयन्तः सन्ति । एतद्यानम् अधुना शिमलातः कैथलीघट्टपर्यन्तं सञ्चरति । अस्मिन् मार्गे पर्वतोदरे १३०सुरङ्गाः सन्ति इति कारणेन अन्तिमनिस्थानस्यापि १०३इत्येव नाम दत्तम् । वस्तुतः तत् निस्थनं १०२सङ्ख्याकं भवति ।
==सर्वत्र पाटाः सञ्जाताः==
अस्य रेलमार्गस्य विश्वपरम्परास्थानम् अस्ति तथापि १०६वर्षप्राचीने अस्मिन् लोहशलाकामार्गे नैकाः न्यूनताः सन्ति । अस्मिन् पथि निर्मिताः सेतवः अतीवजीर्णाः सन्ति । अतः तत्र तत्र अपयस्य सूचनफलकानि लिखितानि । असुरक्षितसेतूनाम् उपरि २०कि.मी. प्रतिहोरावेगेन शकटयानं चलति । अनेन यानेन सामान्यकाले प्रतिदिनं सार्धैकसहस्रं जनां प्रतिदिनं सञ्चरन्ति । प्रवासर्तौ एतेषां सङ्ख्या द्विगुणिता भवति । अस्य रेलमार्गस्य निर्माणस्य परिकल्पनाम् आङ्ग्लजनाः [[हिमालयः|हिमालयस्य]] किन्नौर्मण्डलस्य कल्पा इति स्थाने कृतवन्तः । प्रथमतया अयं रेलमार्गः कालकातः किन्नौरपर्यन्तम् इति निर्णीतम्निर्णीतः आसीत् किन्तु अन्ते शिमलापर्यन्तं निर्मितः ।
 
==कर्नल् बडोगी इत्यस्य आत्महत्या==
आङ्ग्लाः यदा अत्र रेलमार्गस्य निर्माणम् आरब्धवन्तः तदा बडोग इति स्थाने बृहत्पर्वतः प्रक्रान्तः । अग्रे मार्गनिर्माणं दुष्करं इति निश्चितवन्तः । अतः आङ्ग्लाधिकारिणः शिमलापर्यन्तं रेल्मार्गनिर्माणस्य चिन्तनम् अत्यजन् । अस्य कार्यस्य निर्वाहकः कर्नल् बडोगः अत्महत्यां कृतवान् । तस्य नाम्नि एव तन्निस्थानकं सम्बोध्यते ।
"https://sa.wikipedia.org/wiki/काल्काशिम्लाधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्