"रजनीशः" इत्यस्य संस्करणे भेदः

'''आचार्यः रजनीशचन्द्रमोहनः'''(११ डिसम्बर् १९३९-... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[File:Osho (Bhagwan Shree Rajneesh) - Mug shot Multnomah County, Oregon, USA 1985.jpg|thumb|'''आचार्यः रजनीशः''']]
'''आचार्यः रजनीशचन्द्रमोहनः'''(११ डिसम्बर् १९३९-१९ जनवरी १९९०) "ओशो"{{audio|OSHO.ogg|उच्चारणम्}} नाम्ना प्रसिद्धः विश्वे । आध्यात्मिकक्षेत्रे स्वसिद्धान्तान् बोधयन्तः जनान् प्रेरयन्तः च आसीत्। [[भारतम्|भारते]] तथा [[अमेरिका संयुक्त संस्थानः|अमेरिकादेशेच]] वासयतिस्म। प्रीतिः, ध्यानम्, तथा सन्तोषं जीवनस्य प्रमुखाः अंशाः इति अस्य अभिप्रायः।
==जीवनवृत्तान्तम्==
'''ओशो रजनीशः''' ११ डिसम्बर [[१९३९]] तमे वर्षे [[भारतम्|भारतस्य]] [[मध्यप्रदेशराज्यम्|मध्यप्रदेशस्य]] [[जबलपुर]] प्रान्ते अजायत। “ओशो” इति पदं लैटिन् भाषायाः "अशोनिक" पदात् स्वीकृतम् अस्ति। अस्य पदस्य "सागरे विलीनम्" (जायमानम्) इत्यर्थः। [[१९३०]] तमे दशके "आचार्य रजनीशः", "ओशो भगवान श्री रजनीशः"{{audio|Rajneesh.ogg|pronunciation}} इति वा प्रसिद्धिं प्राप्तवान् आसीत्। आचार्यः रजनीशः प्रसिद्धेषु आध्यात्मिक प्रवचनकारेषु गुरुषुच प्रसिद्धः आसीत्। [[भारतम्|आभारते]] तथा विदेशेषुच स्वसिद्धान्तप्रवचनानि दत्तानि आसीत्। सः दर्शनशास्त्रस्य अध्यापकः आसीत्। अस्य काश्चन विचारधाराः विवादोत्पादकाः आसन्। उदाहरणार्थं महात्मागान्धेः विचारधारान् यदा विमृष्टवान् ते अंशाः, संस्थागतधर्माणां विषये विमर्षाश्च सन्दिग्धाः आसन्। [[१९७०]] तमे संवत्सरे [[मुम्बई]] नगरे स्थितवान् आसीत्। तस्मिन् समये स्वशिष्येभ्यः सन्यासदीक्षां (नव सन्यास) दत्तवान् आसीत्। अस्मिन्नेव समयादारभ्य आध्यात्मिकमार्गदर्शकत्वेन कार्यारम्भं कृतवान् इति। स्वविचारधाराभ्यः दार्शनिकांशेभ्यः नूतनस्वरूपं दत्तवानासीत्। [[१९८०]] तमे वर्षे [[पुणे|पुणेनगरे]] स्वाश्रमं स्थापितवान्। तदारभ्य देशीयाः विदेशीयाश्च शिष्याः संवर्धिताः। [[१९८०]] तमे वर्षे [[अमेरिका संयुक्त संस्थानः|अमेरिका]] देशं गतवान्। तत्रत्य सन्यासिशिष्याः “रजनीशपुरम्” आश्रमं स्थापितवन्तः।
==किशोरावस्था==
अस्य मूलनाम चन्द्रमोहनः जैन आसीत्। ११ पुत्रेषु प्रथमः पुत्रः आसीत्। आचार्यः रजनीशः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशस्य]], रायसेन जनपदे स्थिते कुचवाडा ग्रामे अजायत। अस्य पितरौ "श्री बाबुलालः सरस्वती जैनश्च" भवतः। तेरापन्थी [[जैनदर्शनम्|जैनधर्मस्य]] अनुयायिकुटुम्बस्थाः आसन्। अस्य किशोरावस्था मातामहस्य गृहे आसीत्। अस्य सप्तमे वयसि मातामहः दिवङ्गतः। समनन्तरं "गाडरवाडा" प्रदेशे पितरौ सह आसीत्।
"https://sa.wikipedia.org/wiki/रजनीशः" इत्यस्माद् प्रतिप्राप्तम्