"कोलारमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७४:
[[File:Karnataka-districts-Kolar.png|thumb|कर्णाटके कोलारमण्डलम्]]
आन्ध्रप्रदेशतमिळुनाडुसीमाप्रदेशे प्रतिष्ठितम् एतत् मण्डलम् । सुवर्णखन्योद्यमेन प्रसिद्धम् । कोलारनगरं पूर्वं गङ्गवंशीयानां राजधानी आसीत् । कुवलापुरम् इति नाम आसीत् । गङ्गराजैः निर्मितानि मन्दिराणि भवनानि च इदानीमपि शोभन्ते । कर्णाटकस्य पूर्वदिशि अस्ति कोलारमण्डलम् । अत्र दुर्गाः पर्वतप्रदेशाः देवालयाः तटाकानि, इत्यादीनि सन्ति । सहस्रशः सरांसि सन्ति इति केरेगळजिल्ले(सरोवराणां मण्डलम्) इति कथयन्ति । कर्णाटकसीमान्तप्रदेशः एषः ।
 
==उपमण्डलानि-७==
कोलार, मुळुबागिलु, शिड्लघट्ट, मालूरु, चिन्तामणि बङ्गारपेटे, श्रीनिवासपुर।
 
==सूच्याङ्कः==
एस् टी डी - ०८२५
 
==विस्तीर्णता==
८२२३ च.कि.मी
 
==भाषा==
अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते ।
 
==उद्योगः==
एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।
 
==दर्शानीयानि स्थानानि==
अन्तरगङ्गा, चिन्नदगणि(सुवर्णखनिः) मुलबागिलु, बङ्गारुतिरुपति, कोटिलिङ्गेश्वरः, मार्कण्डेयपर्वतः, सोमेश्वरदेवालयः, कोलारम्मदेवालयः, कुरुडुमले, आवनी, मुरुगमल्लदर्ग, विदुराश्वत्थ । मध्वाचार्याणां परमाप्तशिष्यस्य श्रीमन्माधवतीर्थस्य मूलमहासंस्थानम् अत्रैव मुलबागिलुमार्गे शोभते । अत्र जनानां प्रादेशिकभाषा कन्नडं चेदपि तेलुगु तमिळु उर्दु भाषाः अपि भाषन्ते । एतद्मण्डालीयानां जनानां प्रधानः उद्योगः कृषिः गोपालनं च ।
==क्षेत्राणि==
कोलार, मुळुबागिलु, करुडुमलै, आवनी, बूदिकोटे, तम्बिहळ्ळि, बङ्गारुतिरुपति, चिक्कतिरुपति सीतिबेट्ट, टेकल् ।
 
===१.[[कोलार]] + ०८२५२===
कोलारनगरं शतश्रृङ्गपर्वतस्य सानुप्रदेशः । सुवर्णाकराः च अत्र कोलारमण्डल्प्रदेशे सन्ति । कोलारम्मा देवालयः सोमेश्वरदेवालयः च प्रसिद्धौ । कोलारम्मादेवालयः गङ्गशैल्या १२ शतके निर्मितः । सोमेशवर देवालयः विजयनगरशैल्या १५ शतके निर्मितोऽस्ति । सोमेश्वरमन्दिरे ६३ स्तम्भेषु कलावैभवः द्रष्टुं शक्यते । नटराजलोहशिल्पं, कुमारस्वामि- शिलाशिल्पं च आकर्षके स्तः । गोपुरः अपि सुन्दरः अस्ति । अत्र समीपे अन्तरगङ्गापर्वते काशीविश्वेश्वरमन्दिरम् अस्ति । अत्र नन्देः(स्थानीयभाषया बसवः) मुखात् शुद्धं जलं सदा निर्गच्छति ।
:मार्गः -बेङ्गळूरुतः तिरुपतिमार्गे ७२.कि.मी । राष्ट्रियमार्गः -४
 
===२. [[अवनी]]-===
अस्य क्षेत्रस्य आवन्तिका, दक्षिणगया आवन्तिकाक्षेत्रमिति च नामानि सन्ति । अत्र प्रमुखाः देवालयाः एकान्तरामः, कामाक्षी, रामलिङ्गेश्वरदेवालयः च । रामलिङ्गेश्वर- देवालये विशालता सुन्दरता कलात्मकता च अस्ति । पर्वतप्रदेशे (३२४९ पादमितः) सीता, पार्वतीगुडि(मन्दिरम्), अग्नितीर्थम् इत्यादिकम् अस्ति । आवनीक्षेत्रे श्रृङ्गेरीमठे वासादिव्यवस्था अस्ति ।
:मार्गः - मुळुबागिलुतः ८ कि.मी.
:के.जी.एफ् -मुळुबागिलु वाहनमार्गः
 
===३. [[मुळुबागिलु]]===
३. [[मुळुबागिलु]] -अत्र ५ सहस्रवर्षेभ्यः प्राचीनः आञ्जनेयदेवालयः ग्राममध्ये अस्ति । दशपादपरिमितोन्नतः सुन्दरः हनूमान् अर्जुनेन प्रतिष्ठापितः । तं प्रति ताडपुष्पेण अत्र पूजाभवति इति एषः नियमः। समीपे २ कि.मी. दूरे नरसिंहरीर्थम् अस्ति । अत्र श्रीमन्मध्वाचार्याणां शिष्येण श्रीपद्मनाभतीर्थेन सञ्चालितः मठः अस्ति। श्रीपादराजवर्यस्य मूलबृन्दावनं योगपट्टनरसिंहदेवालयः च विराजेते ।
समीपे हञ्चिकल्लगुड्डप्रदेशे श्रीविद्यारण्यः श्रीअक्षोभ्यतीर्थः च वाक्यार्थे वाग्वादं कृतवन्तौ । अत्र शिल्पकलारत्नः इव सोमेश्वरदेवालयः विरूपाक्षः च स्तः ।
:मार्गः- मुळुबागिलुतः २ कि.मी । कोलारतः २९ कि.मी.। बेङगलूरुतः २०० कि.मी। बेङ्गळूरु-तिरुपतिराजमार्गे- श्रीपादराजमठे वसतिः अस्ति ।
 
===४. [[चिक्कतिरुपति]] (मालूरु) ===
४. [[चिक्कतिरुपति]] (मालूरु) प्रसन्नवेङ्कटेशस्य भगवतः श्रीश्रीनिवासस्य प्रसिद्धं मन्दिरम् अत्र अस्ति । एतत् गङ्गराजानां काले १२ शतके निर्मितम् । आन्ध्रप्रदेशे स्थितं तिरुपतितिरुमलै मन्दिरं गन्तुम् अशक्ताः भक्ताः अत्रागत्य स्वभक्तिकार्यं निर्वहन्ति । श्रावणमासे अत्र वैभवेण विविधाः उत्सवाः प्रचलन्ति । सहस्रशः भक्ताः अत्र आगच्छन्ति । इदानीम् अस्मिन् प्रदेश विशेषरूपेण वास्तुशिल्पानि रचितानि सन्ति । तिरुपति-तिरुमलैप्रदेशे यथा भवति तत्समानं दृश्यवैभवं सर्वकार्याणि च अत्रापि भवन्ति।
:मार्गः -बेङ्गळूरुतः ५० कि.मी. ,मालूरतः २५ कि.मी.
 
४. [[चिक्कतिरुपति]] (मालूरु) प्रसन्नवेङ्कटेशस्य भगवतः श्रीश्रीनिवासस्य प्रसिद्धं मन्दिरम् अत्र अस्ति । एतत् गङ्गराजानां काले १२ शतके निर्मितम् । आन्ध्रप्रदेशे स्थितं तिरुपतितिरुमलै मन्दिरं गन्तुम् अशक्ताः भक्ताः अत्रागत्य स्वभक्तिकार्यं निर्वहन्ति । श्रावणमासे अत्र वैभवेण विविधाः उत्सवाः प्रचलन्ति । सहस्रशः भक्ताः अत्र आगच्छन्ति । इदानीम् अस्मिन् प्रदेश विशेषरूपेण वास्तुशिल्पानि रचितानि सन्ति । तिरुपति-तिरुमलैप्रदेशे यथा भवति तत्समानं दृश्यवैभवं सर्वकार्याणि च अत्रापि भवन्ति।
मार्गः -बेङ्गळूरुतः ५० कि.मी. ,मालूरतः २५ कि.मी.
==प्रसिद्धाः व्यक्तयः==
मैसूरुराज्यस्य (इदानीं तु [[कर्णाटक]]म्) प्रथममुख्यमन्त्री दि.चेङ्गलरायरेड्डी कोलारमण्डलस्य एव जनः । मैसूरुसंस्थानस्य दिवानः ख्यातः अभियन्ता सर् एम्.विश्वेश्वरय्यमहोदयः अपि कोलारे जातः । चलच्चित्रस्य अभिनेत्री सौन्दर्या, [[मङ्कुतिम्मन कग्ग]]स्य रचयिता [[डी वी जी]] इति प्रसिध्दः श्री डी.वी.गुण्डप्पः, कन्नडे ज्ञानपीठप्रशस्तिविजेता [[मास्ति वेङ्कटेश ऐय्यङ्गार्यः]], भूतपूर्वसचिवः रमेशकुमारः , [[मैसूरुव्याघ्रः]] इति ख्यातस्य टिप्पुसुल्तान्स्य पिता [[हैदर अलि]], इत्यादयः अपि अस्मिन् एव मण्डले सम्भूताः ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://kolar.nic.in/ Kolar district Official website]
* [http://www.adats.com Agricultural Development and Training Society]
* [http://www.kolar.bsnl.co.in Kolar Telecom District]
* [http://www.templenet.com/Karnataka/kolar.html Temples of Kolar District]
* [http://www.mulbagal.com/byrsriman.html Sri Manjunatha School Byrakur, Mulbagal Taluk]
* [http://www.hindu.com/mp/2005/07/02/stories/2005070202170100.htm Colourful Kolar]
 
{{कर्णाटकस्य मण्डलानि}}
[[वर्गः:कर्णाटकस्य मण्डलानि]]
 
 
[[ar:منطقة كولار]]
[[ca:Districte de Kolar]]
"https://sa.wikipedia.org/wiki/कोलारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्