"मेघालयराज्यम्" इत्यस्य संस्करणे भेदः

this is unreferenced controversial info, hence cannot be here for time-being
(लघु) cleanup
पङ्क्तिः १३:
| image_map = India Meghalaya locator map.svg
| map_alt =
| map_caption = भारते मेघलयःमेघालयः
| image_map1 = Meghalaya locator map.svg
| map_caption1 = मेघलयस्य भूपटः
पङ्क्तिः ३०:
| parts_style = para
| p1 = ११
| seat_type =राजधानिराजधानी
| seat = शिल्लाङ्ग्
| seat1_type =
पङ्क्तिः ६८:
| footnotes =
}}
'''मेघालयः''' ईशान्यभागे [[भारतम्|भारते]] विद्यमानं किञ्चन राज्यम्। मेघानाम् आलयः "मेघालयः"। अस्य राज्यस्य विस्तीर्णं ८.७०० चदरमैलपरिमितम् अस्ति। सा.श. २००० तमे संवत्सरे २,१७५,००० जनसंख्या आसीत्। राज्यस्य उत्तरभागे [[असमराज्यम्]], दक्षिणे [[बाङ्ग्लादेशः|बाङ्ग्लादेशश्च]] भवतः। [[शिलाङ्ग]] अस्य राज्यस्य राजधानी। अस्य नगरस्य जनसंख्या २६०,००० भवति। रज्यस्य तृतीयस्य एकांशः अरण्यप्रदेशः अस्ति। [[असमराज्यम्|असमराज्यात्]] त्रयाणां मण्डलानां [[खासिहिल्स्]], [[जैनतियाहिल्स्]] तथा [[गारोहिल्स्]] विभागकरणेन [[१९७२]] तमे संवत्सरे मेघालयराज्यस्य स्थापनम् अभूत्।
==जनसंख्या==
मेघालयराज्ये वनवासिनः एव अधिकतया निवसन्ति। तेष्वपि ’खासि’ जनाः अधिकतया सन्ति। ’गारोसमुदायस्थाः’ अपि अधिकतया निवसन्ति। अन्ये जैन्, तियार, कोच्, हजोङ्ग, दिमासा, ह्मार, कुकि, लखर, मिकिर, रभा तथा नेपाळि जनसमुदायाः अत्र निवसन्ति। [[भारतम्|भारते]] अधिकया विद्यमानेषु क्रिश्चियनसमुदायेषु त्रिषु राज्येषु मेघालयोऽपि एकं राज्यम्। अस्मिन् राज्ये ७०.३% प्रतिशतं क्रिश्चियनजनाः निवसन्ति। अन्ये द्वे राज्ये [[नागाल्याण्डराज्यम्|नागाल्याण्ड]], [[मिजोरामराज्यम्|मिजोरामश्च]] भवतः। [[१९९१]] तमे संवत्सरे मेघालयराज्ये ६५% प्रतिशतं क्रिश्चियनजनाः वसन्तिस्म। ११ लक्ष क्रिश्चियनजनाः वसन्तिस्म। अस्मिन् समये [[मिजोरामराज्यम्|मिजोरामापेक्षया]] मेघालये [[२००१]] तमे संवत्सरे क्रिश्चियनजनाः अधिकतया वसन्तिस्म। [[२००१]] तमे संवत्सरे अस्मिन् राज्ये १००० पुरुषाणां ९७५ स्त्रीणाम् लिङ्गानुपातः अस्ति। मेघालये पुरुषाणां प्रामुख्यता तावान्नास्तीति अभिप्रायः अस्ति।
==भाषाः==
[[आङ्ग्लभाषा]] मेघालयस्य राज्यभाषा अस्ति। ’खासि’ तथा ’गारो’ मुख्ये भाषे भवतः। ’खासि’ भाषा आस्ट्रो-एष्याटिक् समूहस्य मोनखैरस्य कुटुम्बस्य अङ्गम् अस्ति। प्रायः मेघालयस्थाः ९००,००० जनाः अनया खासि भाषया व्यवहरन्ति। खासिभाषायां विद्यमानानि कानिचन पदानि बङ्गालि तथा आर्यादि भाषातः स्वीकृतानि सन्ति। खासि भाषायाः लिपिः नास्ति। [[भारतम्|भारते]] मोनखैर कुटुम्बेषु अवसिष्टासु भाषासु खासि अपि एका भाषा। गारो, भोडो भाषयोः साम्यता अस्ति। अस्य राज्येषु अधिकाः जनाः गारो, अवे, चिसाक, अबेङ्ग, गाञ्चिङ्ग, कामरूप, आचिक,डाका तथा माट्टियादि भाषाप्रभेदेषु व्यवहरन्ति। अस्य राज्यस्य अपरा भाषा जैन तियाहिल्स् जनानां व्यवहारभाषा भवति। प्रायः खासि भाषायाः परिवर्तितं रूपं भवति।
"https://sa.wikipedia.org/wiki/मेघालयराज्यम्" इत्यस्माद् प्रतिप्राप्तम्