प्रमुखा विकल्पसूचिः उद्घाट्यताम्

परिवर्तनानि

१९४७तमे वर्षे भारतस्य स्वतन्त्र्यप्राप्तेः अनन्तरं “मद्रास् प्रेसिडेन्सी” “मद्रास् स्टेट्” अभवत् । तस्मिन् समुद्रतीरस्थः [[आन्ध्रप्रदेशः]] , [[ओरिस्सा]]याः [[गञ्जां मण्डलम्]] [[कर्णाटकम्|कर्णाटके]] [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डलपर्यन्तं , [[केरळम्|केरळस्य]] केचन भागा: च अन्तर्भूता: आसन् । १९६९ तमे वर्षे भारतस्य भाषानुसारविभजनसमये “मद्रास् स्टेट् “ इति नाम “तमिळ्नाडु” इति परिवर्तितम्। तस्यार्थ: तमिळ्देश: इति ।
== शासनं , निर्वहणञ्च ==
गवर्नर् व्यवस्थानुगुणः अध्यक्ष: अस्ति । मुख्यमन्त्री शासनस्य मन्त्रीणां च अध्यक्षरूपेण भवति । मद्रास् उच्च न्यायालयस्य प्रधानन्यायादीश: एव न्यायसम्बद्धव्यवहारेषु अध्यक्ष: भवति। इदानीं गवर्नर् , मुख्यमन्त्री , न्यायाधीशश्च क्रमेण कोणीजेटि रोसैया , [[जे.जेयललिताजयललिता]] , एम्.आय्.इक्बाल् । निर्वहणदृष्ट्या एष: प्रान्त: ३२ मण्डलैः विभक्तः अस्ति । तस्मिन् १० महानगराणि , १२५ नगराणि , ५२९ नगरपञ्चायतस्थलानि ,१२५२४ ग्रामपञ्जायतस्थलानि च सन्ति । [[चेन्नै]] (पूर्वं मद्रास्) प्रान्तस्य राजधानी अस्ति । तत् भारते चतुर्थं बृहत् महानगरम् अस्ति । एतस्मिन् प्रान्ते ३९लोकसभास्थानानि, २३४ विधानसभास्थानानि च वर्तन्ते ।
भारतस्य अन्यप्रान्तॆषु यथा पञ्जवर्षाणि शासनकाल: तथैव अत्रापि । अधुना ए.आय्.ए.डि.एम्.के. पक्षस्य शासनम् प्रचलति । ते २०११ तमे वर्षे अधिकारं प्राप्तवन्त: । तेषाम् ३३ मन्त्रिण: मुख्यमन्त्रिण्याः जे.जयललिताया: नेतृत्वे शासनं कुर्वन्त: सन्ति । विधानसभा( सट्टसभा)मेलनानि चेन्नैनगरे सेण्ट् जार्ज् दुर्गे प्रचलन्ति । पूर्वम् अत्र चतुर्वारं राष्ट्रपतिशासनम् आसीत् । प्रथमतया १९७६ वर्षत: १९७७ पर्यन्तम् ,१९८०तमे वर्षे अल्पकालम् , १९८८ वर्षात् १९८९ वर्षपर्यन्तम् , अन्ते १९९१ तमे वर्षे च ।
स्थानीयनिर्वहणं(राजस्वनिर्वहणम्) , संवर्धननिर्वहणम् इति द्विधा विभक्तं भवति । तमिळ्नाडुराजस्वनिर्वहणे राजस्वविभागा: , उपमण्डलानि च अन्तर्भवन्ति । निर्वहणविभाग: मण्डलानुसारेण विभक्तम् अस्ति । प्रत्येकं मण्डलम् उपमण्डलैः विभक्तम् । सर्वेषु अपि उपमण्डलेषु केचन राजस्वग्रामा: भवन्ति । तहसिल्दार् नामकः प्रमुख: एतेषाम् उपमण्डलानां प्रधानः अध्यक्ष: भवति ।
तमिल्नाडु शासका: ई-शासने अग्रेसरा: सन्ति । प्रभूतसर्वकार लेखा: (भू क्रयणस्य पञ्चीकरणपत्रादयः) सङ्गणकीकृतानि । सर्वकारकार्यालयेषु नगरस्थ स्थानीय कार्यालयाः,सर्वनगर,महानगर कार्याणि,राजस्वनिधेः सङ्ग्रहणम् इत्यादीनाम् व्यवहारः सङ्गणकद्वारा एव प्रचलति ।
अस्मिन् प्रान्ते न्यायपरिपालनमपि सुष्टु एव प्रचलति । अत्रत्य आरक्षकविभागस्य वयः १४० वर्षाणि । भारते प्रान्त आरक्षकेषु विस्त्रुतिम् अनुसृत्य पञ्चमम् स्थानम् अस्ति । देशे अत्यधिक आरक्षिका: अपि अत्रैव सन्ति । २००३ तमस्य वर्षस्य व्रुत्तानुसारम् ६६८ जनेभ्य: एकः इति रीत्या आरक्षकाः सन्ति अस्मिन् प्रान्ते । एतत् भारतस्य ७१७ जनेभ्यः एक: इत्यस्यापेक्षया अधिकम् ।
 
== राजनीति क्षेत्रम् ==
स्वातन्त्र्यप्राप्तेः पूर्वम् तमिल्नाडु आङ्ग्लेयानाम् शासने आसीत् । तदानीम् अखिलभारत काङ्गरेस् पक्षः एव सर्वत्रापि प्रधानतया आसीत् । प्रादेशिकपक्षाणाम् आधिक्यम् अपि १९१६ पर्यन्तम् आसीत् । तस्मिन्नेव वर्षे तमिल्नाडु प्रान्ते “द्रविडपक्षः” इति अधुना यत् उच्यते तस्य पूर्वभूमिका रूपेण “सौत् इन्डियन् वेल् फ़ेर् अस्सोसियेश्न्” नाम्ना आरब्धा । ते अनन्तरम् जस्टिस् पक्षः इति आहूताः । अनन्तरकाले ते एव पुन: औपचरिकतया “सौत् इन्डियन् लिबेरल् फ़ेडरेशन्”(दक्षिणभरत स्वातन्त्र्य सम्स्था) इति नाम स्वीकृतवन्तः । अखिलभारत काङ्ग्रेस् पक्षीयाः अखण्डभारतम्,सम्पूर्णभारतस्य स्वातन्त्र्यप्राप्तिश्च इति घोषितवन्त: इति कारणेन ते जेयम् प्राप्तवन्तः । स्वातन्त्र्य आन्दोलनसमये मुत्तुरामलिङ्गत्तेवर् ,के.कामराज् ,सुब्रह्मण्यभारती (स्वस्य कविता शक्त्या स्वतन्त्राय जनान् प्रेरितवान्) ,सुब्रह्मण्यशिवा , व.उ.चिदम्बरम् पिल्लै ,तिरुप्पूर् कुमरन् ,राजगोपालाचार्या(राजाजी) ,सत्यमूर्तिः इत्यादयाः नेताराः आसन् । पेरियार् ई.वे.रमस्वामि जस्टिस् पक्षस्य लक्ष्यमार्गम् परिवर्तितवान् । तस्य नेतृत्वे जस्टिस् पक्षस्य वर्धनम् सम्यक् अभवत् । १९४४ तमे वर्षे जस्टिस्पक्षः इत्यस्य “ द्राविडर्कळगम् “ इति नामपरिवर्तनम् कृतवान् ई.वे.रामस्वामि । ते द्राविडनाडु (द्रविडदेशः) नाम्ना पृथक् स्वतन्त्रप्रान्तम् प्रार्थितवन्त: । कालान्तरे पक्षस्य नायकद्वयोरभ्यन्तरे (ई.वे.रा--अण्णातुरै) अभिप्रायभेदकारणेन पक्षस्य विच्छेदः अभवत् । अण्णातुरै द्राविडर्कळगम् त्यक्त्वा “द्राविडमुन्नेट्रकळगम् “ इति एकम् नूतनम् पक्षम् आरब्धवान् । द्र.मु.क पक्ष: १९५६ तमे वर्षे राजनीतिक्षेत्रे तीव्रतया प्रवेष्टुम् निश्चितवन्तः ।
५,४५७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/215057" इत्यस्माद् पुनः प्राप्तिः