"पाटलीपुत्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पाटना इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १:
#पुनर्निदेशन [[पाटना]]
 
'''पाटलीपुत्रं''' पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् [[अजातशत्रुः|अजातशत्रुणा]] स्थापितम्। तदनन्तरं पाटलीपुत्रं [[मगधः|मगधमहाजनपदस्य]] राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः [[मेगास्तनीस्]] अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तन[[पटना]]नगरस्य अधः सन्ति ।
बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य [[पाटलीपुत्रम्]] इति नाम आसीत् [[गङ्गा]]नद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।
"https://sa.wikipedia.org/wiki/पाटलीपुत्रम्" इत्यस्माद् प्रतिप्राप्तम्