"वसुदेवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
वसुदेवः महाभारते, भागवते च उल्लिखितं प्रमुख पात्रमस्ति । वसुदेवः [[श्रीकृष्णः|श्रीकृष्णस्य]] पिता ।
[[चित्रम्:Krishna meets parents.jpg|thumb|200px|right|कृष्णबलरामवसुदेवानां मेलनस्य - [[राजारविवर्मः|राजारविवर्मविरचितं चित्रम्]]]]
दशसु अवतारेषु अष्टमः श्रीकृष्णावतारः श्रेष्ठः । पूतन्याः संहारः गोवर्धनोद्धारः , कालिङ्गमर्दनम् , ईत्यादिकं महत्साहसं अवातारपुरुषः एव कर्तुं शक्नाति । दुष्टसंहारः , शिष्टरक्षणम् , पाण्डवकौरवाणां युद्धम्, अर्जुनस्य सारथ्यम् , इत्यादिकं धर्मसंस्कृतिरक्षणार्थं, लोककल्याणार्थं कृतवान् कृष्णः । गीतोपदेशः अपि लोककल्याणाय एव । एतादृशस्य कृष्णस्य जन्मदातः एव वसुदेवः ।
पङ्क्तिः ५:
यदुवंशोत्पन्नः शूरः एवं तस्य पत्नी मारिषा । एतयोः सुपुत्रः वसुदेवः । एतस्य जन्मसमये देवताः दुन्दुभिं नादितवन्तः । यतः देवताः जानन्ति यत् अग्रे एतस्य गृहे भगवतः अवतारः भविष्यति । अतः एव वसुदेवस्य '''अनेकदुन्दुभिः''' इति नाम ।
 
वसुदेवस्य अनुजस्य देवभागस्य पुत्रः भक्ताग्रेसरः उद्धवः । महान् विद्वान् एषः । देवसमाना कीर्तिः एतस्य उद्धवस्य अपरं नाम देवश्रवः इति । वसुदेवस्य अन्यः सहोदरः अनादृष्टिः । अनादृष्टेः अश्मक्यां निवृत्तशत्रुः इति पुत्रः जातः । वसुदेवस्य अन्यः अनुजः देवशिवः । देवशिवस्य शत्रुघ्नः इति जातः । शत्रुघ्नं तस्य पिता येनकेनचित् कारणेन वने त्यक्तवान् । एषः अटन्यां बिल्लवैः परिपालितः । एषः एव अग्रे [[एकलव्यः]] इति प्रसिद्धः धनुर्धरः जातः ।
 
वसुदेवस्य पौरविः , रोहिणिः , मादिरा , भद्रा , वैशालिः, देवकी इत्यादयः पत्न्यः । तासु रोहिणी बलभद्रः, सारणः , दुर्मदः , इत्यादीन् प्रसूतवती । वैशाल्यां कौशिकः उत्पन्नः देवक्यां कीर्तिमान्, सुषेणः, दायुः, भद्रसेनः, ऋजुदासः, भद्रदेवः समुत्पन्नाः । परन्तु कंसः एतान् मारितवान् । अन्ते सप्तमे गर्भे अर्धरात्रौ भगवत्प्रेरिता माया आकृण्य रोहिण्यां स्थापितवती । आकृण्य स्थापितम् इति कारणतः बलरामस्य सङ्कर्षः इत्यपि नाम अस्ति । अष्टमे गर्भे सञ्जातः श्रीकृष्णः ।
 
वसुदेवस्य पत्नी देवकी । विवाहसन्दर्भे " देवक्याः अष्टमपुत्रतः मातुलस्य [[कंसः|कंसस्य]] मरणम् " इति आकाशवाणी श्रुता । एषा देवकी देवकस्य पुत्री । कंसस्य अनुजा । अशरीरवाणीं श्रुत्वा भीतः कंसः देवकीं मारयितुं सज्जः । तदा वसुदेवः "मास्तु , तां न मारयतु, तस्यां ये पुत्राः जायन्ते तान् भवते अर्पयामि " इत्युक्तवान् । एवं वचनं दत्तवान् इति कारणतः देवकी रक्षिता ।
 
कारागृहे पूर्णगर्भिणीं देवकीं वसुदेवेन सह स्थापितवान् कंसः । श्रावणकृष्णाष्टम्यां रोहिणीनक्षत्रे मध्यरात्रे श्रीकृष्णस्य जन्म अभवत् । तदा "नन्दगोकुले यशोदायाः पुत्री जाता । ताम् अत्र आनयतु । एतं पुत्रं यशोदायाः समीपे त्यजतु "- इति अशरीरवाणी वसुदेवेन श्रुता । बद्धाः श्रृङ्खलाः स्वयम् मुक्ताः जाताः । द्वाराणि उद्घाटितानि । एतैः अद्भुतदृश्यैः वसुदेवः ज्ञातवान् एषः अवतारपुरुषः इति । शिशुम् उन्नीय यमुनातीरं गच्छति । यमुना मार्गं कल्पयति ।
"https://sa.wikipedia.org/wiki/वसुदेवः" इत्यस्माद् प्रतिप्राप्तम्