"वसुदेवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
वसुदेवस्य पौरविः , रोहिणिः , मादिरा , भद्रा , वैशालिः, देवकी इत्यादयः पत्न्यः । तासु रोहिणी बलभद्रः, सारणः , दुर्मदः , इत्यादीन् प्रसूतवती । वैशाल्यां कौशिकः उत्पन्नः देवक्यां कीर्तिमान्, सुषेणः, दायुः, भद्रसेनः, ऋजुदासः, भद्रदेवः समुत्पन्नाः । परन्तु कंसः एतान् मारितवान् । अन्ते सप्तमे गर्भे अर्धरात्रौ भगवत्प्रेरिता माया आकृण्य रोहिण्यां स्थापितवती । आकृण्य स्थापितम् इति कारणतः बलरामस्य सङ्कर्षः इत्यपि नाम अस्ति । अष्टमे गर्भे सञ्जातः श्रीकृष्णः ।
 
वसुदेवस्य पत्नी [[देवकी]] । विवाहसन्दर्भे " देवक्याः अष्टमपुत्रतः मातुलस्य [[कंसः|कंसस्य]] मरणम् " इति आकाशवाणी श्रुता । एषा देवकी देवकस्य पुत्री । कंसस्य अनुजा । अशरीरवाणीं श्रुत्वा भीतः कंसः देवकीं मारयितुं सज्जः । तदा वसुदेवः "मास्तु , तां न मारयतु, तस्यां ये पुत्राः जायन्ते तान् भवते अर्पयामि " इत्युक्तवान् । एवं वचनं दत्तवान् इति कारणतः देवकी रक्षिता ।
 
कारागृहे पूर्णगर्भिणीं देवकीं वसुदेवेन सह स्थापितवान् कंसः । श्रावणकृष्णाष्टम्यां रोहिणीनक्षत्रे मध्यरात्रे श्रीकृष्णस्य जन्म अभवत् । तदा "नन्दगोकुले यशोदायाः पुत्री जाता । ताम् अत्र आनयतु । एतं पुत्रं यशोदायाः समीपे त्यजतु "- इति अशरीरवाणी वसुदेवेन श्रुता । बद्धाः श्रृङ्खलाः स्वयम् मुक्ताः जाताः । द्वाराणि उद्घाटितानि । एतैः अद्भुतदृश्यैः वसुदेवः ज्ञातवान् एषः अवतारपुरुषः इति । शिशुम् उन्नीय यमुनातीरं गच्छति । यमुना मार्गं कल्पयति ।
"https://sa.wikipedia.org/wiki/वसुदेवः" इत्यस्माद् प्रतिप्राप्तम्