"शृङ्गाररसः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
'''शृङ्गारः''' 'रसानां राजा' इति कथयन्ति ।
==शृङ्गारप्रकाशे==
[[चित्रम्:Mani Madhava Chakyar-Sringara-new.jpg|thumb|200px]]
भोजराजः स्वस्य ग्रन्थे 'शृङ्गारप्रकाशे'शृङ्गारमात्रमेव रसः इति एवं प्रतिपादयति
<poem>
Line ११ ⟶ १२:
==नाट्यशास्त्रे==
'''शृङ्गारः रतिस्थायिभावप्रभवः''' इति शृङ्गाररसस्य परिचयं करोति भरतमुनिः । अयम् उज्ज्वलवेषेण युक्तः भवति । स्त्री-पुरुषहेतुकश्च भवति ।
==सङ्गीतरत्नाकरे दशरूपके च===
[[चित्रम्:Sringara3sm.jpg|thumb|200px]]
सङ्गीतरत्नाकरे, धनञ्जयरचिते दशरूपके च शृङ्गारस्य परिचयः एवमस्ति - शृङ्गारः नवरसेषु आदिमः, जनप्रियश्च ।
स्त्री पुंसयोरुत्तमयोः यूनोः पूर्णं सुबोधया ।
Line १९ ⟶ २१:
प्रहृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितः ॥ (दशरूपकम्)
अर्थः - सुन्दरदेश-कला-वेष-भोगादीनां द्वारा परस्परम् अनुरक्तयोः युवक-युवत्योः जायमानः प्रमोदात्मकः भावः एव रतिः । स्त्रीपुरुषयोः परस्परं प्रेम एव रतिः । अनया रतिस्थाय्या जायमानः रसः एव शृङ्गाररसः । तन्नाम आलम्बन-उद्दीपनादिभिः विभावैः उदयमानैः आलिङ्गनालोकनादिभिः विविधैः अनुभावैः युक्ताः रोमाञ्चनादयः स्थायिभावाः उत्पद्यन्ते ।
 
 
 
श्रृङ्गारस्य रतिः स्यायिभावः भवति । नायकयोः र्हृदये जायमानस्संभोगविषयकः इच्छा विशेषः रतिः । स्त्री पुंसयोरन्योन्याऽऽलम्बनकः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिरिति रसगङ्गाधरो निर्वक्ति । इयं रतिः रङ्कुर-पल्लव- कलिका –प्रसून-फल-भोगावस्थासु क्रमशो प्रेम –मान- प्रणय –स्नेह- राग- अनुरागनामभिर्व्यवह्रियते । आसु अष्टासु अवस्थासु, आद्याः पञ्चावस्थाः पूर्वरागे, षष्ठावस्था सम्भोगे च सम्भवति । प्रथमं नायिकायां रतेः प्रादुर्भावः, पश्चात्तदिङ्गितैर्नायकस्य अनुरागः, अनन्तरं तयोस्संयोगः इति क्रमेण वर्णनं निसर्गरमणीयमिति रुद्रटः प्रोवाच ।
==बाह्यसम्पर्कतन्तुः==
*[http://knol.google.com/k/sringara-rasa-the-most-intimate-secret-of-the-classical-indian-dance-in Sringara] - a Knol article elaborating on the subject
 
[[वर्गः:काव्यरसाः]]
 
[[en:Sringara]]
"https://sa.wikipedia.org/wiki/शृङ्गाररसः" इत्यस्माद् प्रतिप्राप्तम्