"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२:
'''गदाधरभट्टाचार्यः'''- रघुनाथशिरोमणेः दीधितिटीकामवलम्ब्य गादाधरीनाम्ना प्रटीका गदाधरभट्टाचार्येण विरचिता । आत्मतत्त्वविवेकं, तत्त्वचिन्तामणिं चापि विषयीकृत्य अनेन स्वतंत्रटीकाग्रन्था रचिताः । अस्य कृतित्वसन्दर्भे एषा जनश्रुतिरस्ति यदनेन नव्यन्यायविषये द्वीपञ्चाशद् ग्रन्थानां रचना विहिता । व्युत्पत्तिवादः, शक्तिवादश्चापि गदाधरस्यैव रचनाद्वयं वर्तते । यद्यप्येतदुपरान्तमपि नव्यन्यायस्य ग्रन्थरचनायाः कार्यं धारावाहिकरूपेण सञ्जातम् तथापि प्रचारप्रसारयोरभावे न्यायशास्त्रस्य दुरूहता समृद्धाऽभवत् अतः कालान्तरे न्यायस्य विकासोऽवरुद्धः ।

==पदार्थ-प्रमाणानि==
न्यायशास्त्रं पदार्थज्ञानस्य उपस्थापकमस्ति । पदार्थज्ञानात्पूर्वं ज्ञानस्य प्रक्रिया बोद्धव्या भवतीति विचार्य न्यायशास्त्रे प्रथमं ज्ञानस्य स्वरूपं प्रतिपादितम् ।
प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्वज्ञानात् मोक्षः भवति इति न्यायसूत्रकारस्य महर्षिगौतमस्य प्रतिपादनमस्ति ।

न्यायमतेन ज्ञानं प्रत्येकस्य वस्तुनः प्रकाशकमस्ति । तेनैव पदार्थस्य यथार्थज्ञानं भवति । ज्ञानं च द्विधा जायते-स्मृतिरूपं अनुभवरूपं च । ज्ञातविषयं ज्ञानं स्मृतिर्भवति किन्तु अनुभवस्तु पदार्थसाक्षात्कारेण संभवति । अनुभवोऽपि द्विधा वर्तते-अयथार्थानुभवः यथार्थानुभवश्च । अयथार्थानुभवस्तु संशय-तर्क-विपर्ययरूपो भवति । यथार्थानुभवश्च यथार्थं ज्ञानमेव प्रामाणिकं मन्यते ।

भारतीयदर्शनेषु ज्ञानस्य प्रामाण्यविषये मतभेदो वर्तते । केचन दार्शनिकाः ज्ञानस्य स्वतः प्रामाण्यं स्वीकुर्वन्ति किन्तु कतिपयेऽपरे परतः प्रामाण्यं प्रतिपादयन्ति । न्यायदर्शने ज्ञानस्य परतः प्रामाण्यं स्वीकृतमस्ति । कस्यापि पदार्थस्य ज्ञानानन्तरं तत्कृते इच्छा यत्नश्च आवश्यकौ स्तः । प्रवृत्तेः साफल्ये एव ज्ञानस्य प्रामाण्यं निर्धार्यते । इदमेव न्यायशास्त्रस्य समर्थप्रवृत्तिजनकत्वम् कथितम् । न्यायशास्त्रिणां मतमस्ति यत् ज्ञानस्य स्वतः प्रामाण्यं स्वीकर्त्तुं नैव शक्यते, यतोहि तस्यां दशायां ज्ञानस्य प्रामाण्ये सन्देह एव नोत्पत्स्यते ।

प्रमाभेदात् प्रमाणभेदो न्यायमते स्वीक्रियते । प्रमायः चत्वारो भेदा भवन्ति प्रत्यक्ष प्रमा, अनुमिति प्रमा, उपमिति प्रमा, शाब्दप्रमा चेति । प्रत्यक्षप्रमाद्वारा प्रत्यक्ष ज्ञानं भवति अतः तस्यां क्रियायां प्रत्यक्षप्रमाणां स्वीक्रियते । अनुमितिजन्यं ज्ञानम् अनुमानं भवति । उपमितिजन्यं ज्ञानम् उपमानं भवति । शाब्दप्रमाजन्यं ज्ञानं शब्दप्रमाणेन गृह्यते । एवं प्रमाणचतुष्टयम् उपपद्यते ।

'''प्रत्यक्षप्रमाणम्'''- इन्द्रियस्य पदार्थेन सह सन्निकार्षात् यत् ज्ञानं भवति तत् प्रत्यक्ष ज्ञानं भवति अतः तत्र प्रत्यक्षप्रमाणं स्वीक्रियते । इदं पञ्चज्ञानेन्द्रियैः मनसा च सह सम्बन्धात् षड्विधं भवति । एषु पञ्चज्ञानेन्द्रियाणां स्वस्वविषयैः सह सम्बन्धात् यः प्रत्यक्षो भवति सः सविकल्प उच्यते, मनःसंयोगेन जायमानः प्रत्यक्षस्तु निर्विकल्पो भवति । इमावेव प्रत्यक्षस्य प्राधान्येन द्वौ भेदौ स्तः ।

==='''प्रत्यक्षप्रमाणम्'''===
'''सविकल्पं प्रत्यक्षम्'''- ज्ञानेन्द्रियाणां विषयाः शब्द-स्पर्श-रूप-रस-गन्ध-गुणाः सन्ति । गुणाः द्रव्येषु समवायसम्बन्धेन तिष्ठन्ति । तत्तद् द्रव्यरूपेण अर्थेन यदा सम्बन्धितस्य ज्ञानेन्द्रियस्य संन्निकर्षो भवति तदा तस्मादुत्पन्नं ज्ञानं सविकल्पं भवति । अर्थात् नामजात्यादियुक्तानां पदार्थानां ज्ञानं सविकल्पं कथ्यते ।

'''निर्विकल्पं प्रत्यक्षम्'''- निर्विकल्पं प्रत्यक्षं मानसप्रत्यक्षमपि कथ्यते । यदा नामजात्या दिरहितस्य पदार्थस्य प्रत्यक्षं भवति तदा तत् निर्विकल्पं भवति । अर्थात् लौकिकज्ञानातिरिक्तम् अलौकिकं ज्ञानं निर्विकल्पं उच्यते । यति हिंसः मनसा आत्मनः संयोगात् जायमाना अलौकिकी अनुभूतिः ज्ञानेन्द्रियैः व्यक्ता न भवति, किन्तु निर्विकल्पज्ञानात्मिका प्रतीतिः जायते । विशेषेणायं योगिनां प्रत्यक्षस्य विषयोऽस्ति ।

'''सन्निकर्षः'''- प्रत्यक्षम् अवगन्तुं सन्निकर्षस्य ज्ञानमप्यावश्यकं भवति । ‘सन्निकर्ष’ सम्बन्धविशेषं द्योतयति । इन्द्रियेण अर्थस्य सम्बन्धरूपः सन्निकर्षः षड्विधो भवति । तद्यथा- (१) संयोगः (२) संयुक्त समवायः (३) संयुक्त समवेत समवायः (४) समवायः (५) समवेत समवायः (६) विशेषणविशेष्यभावश्चेति ।
===='''सविकल्पं प्रत्यक्षम्'''====
'''सविकल्पं प्रत्यक्षम्'''- ज्ञानेन्द्रियाणां विषयाः शब्द-स्पर्श-रूप-रस-गन्ध-गुणाः सन्ति । गुणाः द्रव्येषु समवायसम्बन्धेन तिष्ठन्ति । तत्तद् द्रव्यरूपेण अर्थेन यदा सम्बन्धितस्य ज्ञानेन्द्रियस्य संन्निकर्षो भवति तदा तस्मादुत्पन्नं ज्ञानं सविकल्पं भवति । अर्थात् नामजात्यादियुक्तानां पदार्थानां ज्ञानं सविकल्पं कथ्यते ।

===='''निर्विकल्पं प्रत्यक्षम्'''====
'''निर्विकल्पं प्रत्यक्षम्'''- निर्विकल्पं प्रत्यक्षं मानसप्रत्यक्षमपि कथ्यते । यदा नामजात्या दिरहितस्य पदार्थस्य प्रत्यक्षं भवति तदा तत् निर्विकल्पं भवति । अर्थात् लौकिकज्ञानातिरिक्तम् अलौकिकं ज्ञानं निर्विकल्पं उच्यते । यति हिंसः मनसा आत्मनः संयोगात् जायमाना अलौकिकी अनुभूतिः ज्ञानेन्द्रियैः व्यक्ता न भवति, किन्तु निर्विकल्पज्ञानात्मिका प्रतीतिः जायते । विशेषेणायं योगिनां प्रत्यक्षस्य विषयोऽस्ति ।

==='''सन्निकर्षः'''===
'''सन्निकर्षः'''- प्रत्यक्षम् अवगन्तुं सन्निकर्षस्य ज्ञानमप्यावश्यकं भवति । ‘सन्निकर्ष’ सम्बन्धविशेषं द्योतयति । इन्द्रियेण अर्थस्य सम्बन्धरूपः सन्निकर्षः षड्विधो भवति । तद्यथा- (१) संयोगः (२) संयुक्त समवायः (३) संयुक्त समवेत समवायः (४) समवायः (५) समवेत समवायः (६) विशेषणविशेष्यभावश्चेति ।
संयोगसंनिकर्षः घटादिपदार्थानां प्रत्यक्षेण भवति । संयुक्तसमवायसनिकर्षः घटादिपदार्थेषु विद्यमानस्य रूपादेः प्रत्यक्षेण भवति । संयुक्तसभावेतसमवायः सन्निकर्षः रूपत्वादि धर्मस्य प्रत्यक्षेण भवति । समवायः सन्निकर्षः शब्दस्य प्रत्यक्षेण भवति । समवेदसमवायश्च पुनः शब्दत्वजातेः प्रत्यक्षेण भवति । विशेषणविशेष्यभावश्च घटादिपदार्थानां अभावस्य साक्षात्कारे भवति ।

'''अलौकिकसन्निकर्षः'''- अलौकिकसन्निकर्षस्तु त्रिधा भवति (१) सामान्यलक्षणा प्रत्यासत्तिः (२) ज्ञानलक्षणाप्रत्यासत्तिः (३) योगजप्रत्यासत्तिश्च । एषु सामान्यलक्षणा प्रत्यासत्तिरेव व्याप्तिग्रहणादौ कार्ये व्याभिचारादिदोषान् अपाकरोति । यथा हि ‘यत्र यत्र धूमस्तत्र तत्र वह्निः’ इत्युदाहरणे धूमनिष्ठस्य धूमत्वस्यापि धूमज्ञानकाले एव प्रत्यक्षो भवति अतः धूमत्वज्ञाने सति त्रैकालिकधूमानां ज्ञानं भवेत् किन्तु तन्न भवति अपितु वर्तमानकालिकस्यैव घूमस्य ज्ञानं भवति, यतो हि सामान्यलक्षणप्रत्यसत्त्या सर्वेषां भूतभविष्यद्वर्तमानकालिकानां धूमानां ज्ञानात् वर्तमानकालिक-इतरकालिकधूमज्ञानानां व्यभिचारो न भवति यतो हि चक्षुरिन्द्रियेण धूमस्य प्रत्यक्षो वर्तमानमेव बोधयति ।

==='''अलौकिकसन्निकर्षः'''===

ज्ञानलक्षणा प्रत्यासत्तिस्तु चक्षुरिन्द्रियाणां तत्तद्विषयैः सह सम्बन्धाभावेऽपि पूर्वानुभूतस्य संस्कारवशाद् पुनर्ज्ञानं जनयति । यथा '''सुरभि चन्दनम्''' इत्यादौ चन्दनस्य प्रत्यक्षश्चक्षुरिन्द्रियेण भवति । सुरभेः ग्रहणं न पुनः चक्षुरिन्द्रियस्य विषयः । तत्तु घ्राणेन्द्रियस्य विषयोऽस्ति । किन्तु दूरस्थेऽपि घ्राणेन्द्रिये केवलं चक्षुषा चन्दनदर्शनमात्रेण तस्य सुरभेः ज्ञानं सहजरूपेण जायते यतोहि ज्ञानलक्षणप्रत्यासत्या चन्दनस्य सुरभेः यः पूर्वानुभवो विहितस्तस्य संस्कारः चक्षुःसन्निकर्षमात्रेऽपि ज्ञातुरन्तःकरणे तिष्ठति । स च अलौकिकत्वात् अयं सन्निकर्षोऽलौकिकसन्निकर्षो वर्तते ।

परोक्षस्याथवा सूक्ष्मस्य पदार्थस्य ज्ञानं इन्द्रियार्थसन्निकर्षेण नैव संभवति । तथापि परमाणुतः महत्पर्यन्तं पदार्थानां प्रत्यक्षं लोकैर्विधीयते । किन्तु इदं प्रत्यक्षं सामान्यजनेभ्यः सम्भवं नास्ति । अयं सन्निकर्षस्तु योगिजनेभ्य एव सुलभो वर्तते । यतो हि योगिनो विना इन्द्रियार्थसन्निकर्षं सूक्ष्मतमान् महत्तमान् च पदार्थान् हस्तामलकं साक्षात् करोति । इदं ज्ञानं योगज सन्निकर्षेणैव सम्भवमस्ति । अतएवायमपि अलौकिकसन्निकर्षा वर्तते । अत्र ध्यानमेवैकमात्रं साधनं भवति न त्विन्द्रियादिकम् अतः इन्द्रियजन्यलौकिकप्रत्यक्षवत् अस्य प्रत्यक्षो न भवति । निर्विकल्पकसमाधावपि ध्यानबलेनैव धारणायाः स्थिरत्वात् परतत्त्वसाक्षात्कारो भवति, अतः सोऽपि अलौकिकं प्रत्यक्षमेव ज्ञातव्यम् ।

'''अनुमानप्रमाणम्'''- यः पदार्थः परोक्षः अदृष्टः सूक्ष्मो वा भवति, तस्य पदार्थस्य ज्ञानम् अनुमानप्रमाणेन विधीयते । येन हेतुना परोक्षवस्तुनो यथार्थानुभवो जायते स परोक्षप्रतिपादकः हेतुः यत्र वर्तते तत्प्रमाणमनुमानमिति ज्ञातव्यम् । हेतुना हेतुमतः ज्ञानमिदं वर्तते । हेतुर्लिङ्गसंज्ञयाऽपि व्यवह्रीयते । लिङ्गेन लिङ्गिनो ज्ञाने या प्रक्रिया भवति सा लिङ्गपरामर्शाख्या कथ्यते, अतः लिङ्गपरामर्शोऽनुमानं भवतीति नैयायिकैः उक्तम् ।

==='''अनुमानप्रमाणम्'''===

लिङ्गपरामर्शो व्याप्तिबलेन अर्थबोधम् उपपादयति । अतः लिङ्गं व्याप्तिबलेन अर्थगमकं भवति । व्याप्तिस्तु साहचर्यनियमो भवति, यथा '''यत्र यत्र वह्निस्तत्र तत्र धूमः''' इति । धूमदर्शनान् व्याप्तिस्मरणपूर्वकम् पर्वतादौ वह्नेरनुमानं क्रियते, तेन पर्वतेऽदृष्टस्य वह्निपदार्थस्य सत्ता सिद्ध्यति । इदमेव स्वार्थानुमानम् ।
इदमेव अनुमानं यदि प्रथमानुमात्रा अन्यस्य कृते पञ्चावयववाक्यैः कार्यते तदा तत्परार्थानुमानं भवति । पदार्थानुमानस्य प्रक्रियायां पञ्च वाक्यानि प्रयुञ्जते, यथा-

"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्