"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४६:
[[हृषीकेशः]], [[अल्मोरा]], [[राणिखेत्]], [[मसूरी]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]] च अत्रैव समीपे विद्यमानानि क्षेत्राणि। प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति।
===मार्गः===
===[[देहराडून्देहरादून्]] गढवाल् हिमालयस्य प्रवेशाय प्रवेशद्वारम्==
[[मसूरी]] अतिशीतलं स्थानम् अस्ति । [[हिमालयः|हिमालये]] [[यमुनानदी|यमुनानद्याः]] जन्मस्थानं [[यमुनोत्री]] [[हरिद्वारम्|हरिद्वारतः]] २६ कि.मी. दूरेऽस्ति । निबिडारण्ये एतत् सरोवरम् अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां ग्रहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लेषियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव [[हेमकुण्डः]], [[पुष्पकन्दरः]], दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । [[पिण्डारी]]हिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । [[बदरीनाथः|बदरीनाथ]]क्षेत्रं [[हृषीकेशः|हृषीकेशतः]] २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । [[गङ्गा]][[भागीरथी|भागीरथ्योः]] सङ्गमस्थानं [[देवप्रयागः]] इति प्रसिद्धम् । [[गङ्गा]][[मन्दाकिनी|मन्दाकिन्योः]] सङ्गमः [[रुद्रप्रयागः]] इति ख्यातः । [[कर्णगङ्गा]][[गङ्गा|गङ्गयोः]] सङ्गमस्थानं [[कर्णप्रयागः]] इति प्रसिद्धम् । [[विष्णुप्रयागः]] [[नन्दप्रयागः]] इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति । अत्र जनाः स्नानं कुर्वन्ति । देवालयस्य अग्रे [[अलकनन्दानदी]] प्रवहति । देवालये नारायणस्य सुन्दरी लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थानि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।
 
==[[केदारनाथः]] पौराणिकपावित्र्यम्==
नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति। अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । [[वेदव्यासः|वेदव्यासमहर्षिः]] अत्र स्थितवान् । श्री [[शङ्कराचार्यः]] अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री [[वेदव्यासः]] [[महाभारतम्]] अत्रैव रचितवान् [[गणपतिः]] अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । [[हृषीकेशः|हृषीकेशतः]] रुद्रप्रयागपर्यन्तम् आगत्य अग्रे [[केदारनाथः|केदारनथक्षेत्रं]] गन्तुं शक्यते । एतत् हृषीकेशतः २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । [[केदारनाथः|केदारनाथप्रदेशं]] रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । [[केदारनाथः|केदारनाथक्षेत्रं]] [[द्वावदशज्योतिर्लिङ्गानि|द्वादशज्योतिलिङ्गक्षेत्रेषु]] अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया [[शिवः]] अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति [[शिवपुराणम्|शिवपुराणे ]] अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । [[केदारनाथः| केदारनाथस्य]] क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। [[गौरीकुण्डः]] इति पवित्रजलवापी अस्ति । श्री[[शङ्कराचार्यः]] केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं दर्शनीयस्थानम् ।
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्