"ताजमहल" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding rue:Тадж Махал
No edit summary
पङ्क्तिः २८:
}}
ताजभवनम् (अमृतशिलाकाव्यम्)
आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना [[शाहजहानशाहजहानः|शाहजहानेन]] प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । [[फ्रान्स्फ्रान्सदेशः|फ्रान्सदेशस्य]] देशस्य ऐफेल् गोपुरमिव [[आस्ट्रेलिया]] देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । [[यमुना]]नद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य दैर्घ्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।
==ताजमहल् स्वरूपम्==
परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति।
पङ्क्तिः ३७:
ताजमहल् भवनं ये पश्यन्ति तेषा मनसि एतत् अलौकिकं भवन इति भावना भवति । अतीवाकर्षकं सुन्दरं काव्यमिव सर्वजनप्रियं भवन एतत् । मोगलचक्रवर्तिः शाहजहानः स्वप्रियपत्न्याः मुमताज़वर्यायाः स्मरणार्थं एतस्य निर्माणं कारितवान् । क्रिस्ताब्दे १६३११६५२ पर्यन्तस्य कालावसरे निर्मित एतत् कलास्थानं विश्वे अद्भुत स्थानेष्वन्यतम इति परिगण्यते । वर्णनातीतमेतत् चन्द्रिकाया अत्यन्तं मोहकं भवति । “यावत् एतस्य साक्षात् दर्शनं न क्रियते तावत् तस्य वर्णनम् अपूर्णम् एव तिष्ठति । अस्य अद्भुत सौन्दर्यं साक्षादेव द्रष्टव्यम् ” इति फर्ग्युसन् महोदयः उक्तवान् अस्ति । भवने बहिर्भागे उपयुक्ताः अमृतशिलाः सम्यक् घर्षयित्वा मसृणतायुक्ताः कृताः सन्ति । सूर्यप्रकाशे किरणानि सर्वत्र प्रतिफलन्ति । पुरतः निर्मले सरोवरजले ताजमहल् प्रतिबिम्बः द्रृष्टुं शक्नुमः । ताजमहल् दर्शनाय ग्रीष्मकाले प्रातः ७.३० वादनतः , शीतकाले ८ वादनतः प्रवेशावकाशः अस्ति । साधारण समये अल्प शुल्क । ४.०० वादनानन्तरं शुल्कं महार्घं भवति। शुक्रवासरे दर्शनं निश्शुल्कम् भवति । सोमवासरे अत्र विरामः भवति ।
==विमानमार्गः==
[[देहली]] [[खजुराहो]] [[वारणासीवाराणसी]] इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।
==धूमशकटमार्गः==
[[देहली]][[चेन्नै]] मार्गे [[आग्रा]] प्रमुखनिस्थानमस्ति । [[कोलकाता]]तः आगतवतां टुण्डला निस्थानं समीपे भवति । ततः ३५ कि.मी वाहनमार्गेण गन्तव्यम् । आग्राकण्टोन्मेण्ट् मुख्य निस्थानमस्ति ।
==भूमार्गः==
मुख्यवाहननिस्थानं पोर्टवाहननिस्थानमस्ति । ईदगावाहननिस्थानतः नगरवाहनसम्पर्कः अस्ति । [[देहली]]तः २०० कि.मी. । [[ग्वालियरग्वालियर्]]तः ११९ कि.मी. । [[लखनौ]]तः ३६९ कि.मी । [[मुम्बयी]]तः ३२० कि.मी । [[जयपुरम्|जयपूरतः]] १३० कि.मी । भरतपुरतः ६० कि.मी । [[मथुरा]]तः ५८ कि.मी. । [[देहली]]तः एकदिनप्रवासव्यवस्था अस्ति ।
 
 
"https://sa.wikipedia.org/wiki/ताजमहल" इत्यस्माद् प्रतिप्राप्तम्