"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
===मार्ग:===
३६ कि. मी. दूरे कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । [[देहली]]तः २२२ कि. मी. दूरे अल्मोरातः ६६ कि.मी. दूरे अस्ति ।
==पिण्डारी==
[[File:Pindari glacier, Uttarakhand, India.jpg|thumb|right|300px|पिण्डारी ग्लेषियर्]]
एतत् गढवाल् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अधः अवतरन्ति । एषा हिमनदी ३ कि.मी. दीर्घा , अर्ध कि.मी. विस्तृता च अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति ।
पैन् वृक्षाणां समूहः, फेर्न् शाद्वलाः स्वाभाविकतया विकसितानि पुष्पाणि, पुष्पवन इत्यादि अविस्मरणीयानि भवन्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वेषामपि जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।
===मार्गः===
[[हृषीकेशः|हृषीकेशतः]] कापकोटे पर्यन्तं वाहनप्रवासः । अनन्तरं पादचारणं च । पुनरागमन समये बजनाथतः [[अल्मोरा]] आगत्य [[नैनिताल् ]]मार्गेण प्रवासः कर्तुं शक्यः । सप्टम्बरअक्तोबरमासौ उत्तमौ । P.W.D वसतिगृहणि सन्ति ।
हृषिकेशतः ३६६ कि.मी. । पिण्डारीतः [[अल्मोरा]] १५५ कि.मी. ।
==[[जिम् कार्बेट् राष्ट्रियोद्यानम्]]==
उत्तराञ्चलराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३चतुरस्र कि.मी. अस्ति । कुमाम्व् पर्वतप्रदेशे रामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.१९३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः जिम् कार्बेट् कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।
५,४५७

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/219081" इत्यस्माद् प्रतिप्राप्तम्