"सिद्धगङ्गा" इत्यस्य संस्करणे भेदः

(लघु) File renamed: File:SIT collage.jpgFile:SIT collage 2.jpg College was misspelled.
(लघु) File renamed: File:SIT collage 2.jpgFile:SIT college 2.jpg College was misspelled.
पङ्क्तिः ८:
एतत् दृष्व्टा तपस्वी आश्र्चर्यचकितः जातः । सिध्दलिङ्गेश्र्वरं नमस्कृतवान् स्तुतवान् च । सिध्दलिङ्गेश्र्वरः उक्तवान् " एतस्मिन् क्षेत्रे गङ्गा स्थितवती । इतः सिध्दगङ्गा इति एतस्य क्षेत्रस्य नाम भवतु । सिध्दगङ्गा प्रसिद्धिं प्राप्नोतु इति आशीर्वादं कृतवान् । तदा आरभ्य एतत् क्षेत्रं सिध्दगङ्गा अभवत् । तोण्टदलिङ्गेश्र्वरः, गोसलसिध्देश्र्वरः इत्यादयः विरक्ताः अत्र आगताः । अत्र मठान् स्थापितवन्तः । रुद्रस्वामिनः, सिध्दलिङ्गस्वामिनः, मुप्पिनस्वामिनः इति परम्परायाम् आगताः । अनन्तरमागताः श्री अटवीस्वामिनः ।
अटवीस्वामिनः मठं निर्मीय अन्नदासोहं, ज्ञानदासोहं च व्यवस्थापितवन्तः । तैः तद्दिने प्रज्वालित दीपः अद्यापि निरन्तरं प्रज्वलति । अटवीस्वामिनः अलौकिकाः आसन् । अनेकान् भक्तान् उध्दृतवन्तः । एतेषां तपसः प्रभावात् श्रीक्षेत्रं प्रति बहवः भक्ताः आगन्तुम् आरब्धवन्तः । दिने दिने एषा संख्या वर्धमाना एव अस्ति ।
[[File:SIT collagecollege 2.jpg|thumb|तान्त्रिकमहाविद्यालयः,सिद्धगङ्गा]]
 
सिध्दगङ्गायाः इतिहासे उद्यान शिवयोगिनां नाम अपि प्रमुखम् अस्ति । एते स्वामिनः ज्ञानिनः । एते अन्नदासोहं, ज्ञानदासोहं, महोत्सवः इत्यादिकं प्रचालितवन्तः । मठस्य प्रगतौ कारणीभूताः एते । १९०१ तमे वर्षे अत्र यात्रामहोत्सवः आरब्धः । अद्यापि बहुसम्यक् महोत्सवः सिध्दगङ्गायां प्रचलति । श्रीशिवकुमारस्वामिनां काले महोत्सवः वैभवपूर्वकं प्रचलति । महोत्सवे कनीयं सः वयस्काः, ज्येष्ठाः, धनिकाः, दरिद्राः, विभिन्नजातीयाः भेदभावं विना आगच्छन्ति । सिध्दगङ्गदेवेन अनुगृहीताश्र्च भवन्ति । हेरम्बकविः " सिध्दलिङ्गेश्र्वर साङ्गत्ये " सिध्दगङ्गाजलस्य महिमानं वर्णितवान् । सिध्दगङ्गायाः माहात्म्यं कर्णाटकात् बहिरपि प्रसृतम् अस्ति ।
"https://sa.wikipedia.org/wiki/सिद्धगङ्गा" इत्यस्माद् प्रतिप्राप्तम्