"एलिफेण्टागुहाः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding sk:Jaskyne na Elefante
No edit summary
पङ्क्तिः ३२:
| url = http://whc.unesco.org/en/list/244
}}
'''एलिफेण्टागुहाः''' [[भारतम्|भारतस्य]] [[मुम्बयी]]नगरस्य समीपे एलिफेण्टा इति द्वीपे अस्तिसन्ति । अस्य द्वीपस्य प्राचीनं नाम मराठीभाषया घारापुरि इति । पोर्चुगीस् जनाः एलिफेण्टा इति परिवर्तितवन्तः । क्रि.श. १९८७तमे वर्षे युनेस्कोसङ्घटनेन एतत् स्थानं विश्वपरम्पारास्थानम् इति उद्घुष्टम् । एलिफेण्टागुहासु विद्यमानाः शिलामूर्तीः पोर्चुगीस् जनाः विकारितवन्तः । ते क्रि.श. १७तमे शतके पोर्चुगीस् जनाः भुषुण्डिगोलिकाप्रयोगस्य लक्ष्यमिव उपयुज्य मूर्तीः भञ्जितवन्तः । एलिफण्टागुहायाः इतिहासः क्रि.श.नवमशतकः १३तमशतकपर्यन्तं प्रशासितुः सिल्हणराजानां कालस्य इति विश्वसितम् । किन्तु अत्र विद्यमानाः काश्चन मूर्तयः मन्यखेटस्य [[राष्ट्रकूटवंशः|राष्ट्रकूटानां]] कालस्य इति केषाञ्चन अभिप्रायः। अत्र शिवस्य त्रिमुखस्य सदाशिवमूर्तिः ब्रह्माविष्णुमहेश्वरैः सदृशास्ति । इयं सदाशिवमूर्तिः एव [[राष्ट्रकूटाः|राष्ट्रकूटवंशीयानां]] लाञ्छनम् आसीत् । सुन्दरी नटराजमूर्तिः आकर्षका अर्धनारीश्वरमूर्तिः अपि राष्ट्रकूटशैल्या अस्ति इति अभिप्रायः । शिलाः उत्कीर्य निर्मिताः एलिफेण्टागुहाः बहुशः ६०सहस्रवर्गपादपरिमिताः विस्तृताः सन्ति । अत्र नैके प्राङ्गणाः, मन्दिराणि, सन्ति । विविधविन्यस्तमण्डपेषु विविधाः देवतामूर्तयः सन्ति । मध्ये कश्चन प्रधानः शिवालयः शोभते । अत्र सदाशिवः सदा निवसति इति भजकानाम् दृढविश्वासः ।
एलिफेण्टागुहाः [[मुम्बयी]]सागर तीरे स्थितात् अपोलोनौकानिस्थानतः ११ कि.मी दूरे द्वीपे सन्ति । अत्र दर्शनीयाः गुहादेवालयाः मुम्बयीनगरमागतानां प्रमुखाकर्षणकेन्द्राणि सन्ति । प्रायशः अष्टचतुरस्रकिलोमीटर् विस्तारे प्रदेशे आरम्भे १३ पादमितदीर्घं शिलानिर्मितं गजं दृष्ट्वा पाश्चात्याः एतं द्वीपम् एलिफेण्टा इति उक्तवन्तः ।
एलिफेण्टागुहाः प्रायशः क्रिस्ताब्दस्य तृतीयशतकतः एकादशशतकपर्यन्तं राजमहाराजाना विहारस्थानम् आसीत् । सुन्दरवनैः पर्वतशिखरैः पूर्णं सुन्दरं स्थलमासीत् । घटपुरी इति अस्य नाम आसीत् । पोर्तुगीस् देशीयाः एतत् स्थानं एलिफेण्टा इति उक्तवन्तः।
"https://sa.wikipedia.org/wiki/एलिफेण्टागुहाः" इत्यस्माद् प्रतिप्राप्तम्