"काठमाण्डू" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
[[File:Medbud BuddhaManjushri.jpg|thumb|right|मञ्जुश्री-बोधिसत्त्वः]]
===प्राचीनेतिहासः===
काठ्मण्डुनगरस्य प्राचीनेतिहासः पुराणसम्बद्धः । स्वयम्भूपुराणानुगुणम् इदं नगरं पूर्वं 'नगधनागदहः' नामकः सरः आसीत् । इदं सरः मञ्जुश्री शुष्कीकृत्य तत्र मञ्जुपत्तनं निर्मितवती । तस्य राजा आसीत्
धर्मकरःधर्माकरः । नेपालीयानां वंशवृक्षस्य अध्येता गोपालराज् वन्सवली वदति यत् लिचचाविनां शासनात् पूर्वं इदं मण्डलं गोपालः, महिष्पालाः, आभिराः, किराताश्च अशासन् इति । प्राचीनोल्लेखाः अत्यल्पाः उपलभ्यन्ते ।
 
===मध्यकालीनेतिहासः===
अस्मिन् समये काठ्मण्डुनगरस्य शासकाः आसन् लिच्चाविजनाःलिच्छविजनाः मल्लाश्च । नगरस्य वर्धनम् अस्मिन् काले एव अधिकतया जातम् । बहवः ऐतिहासिकानि मन्दिराणि, आश्रमाः भवनानि च अस्मिन् एव काले निर्मितानि । इदं नगरं भारत-चीनदेशयोः वाणिज्यस्य केन्द्रभूतम् आसीत् । लिच्चावियुगेलिच्छवियुगे इदं नगरं द्विधा विभक्तम् आसीत् - कोलिग्राम् (याम्बुयम्बु/थानेथःने) दक्षिण-कोलिग्राम् (येङ्गाल्/कोन्क्वःने) च इति । अग्रे गुणकमदेव एतद्वयं संयोज्य मञ्जुश्रीनामकंमञ्जुश्रीस्य खड्गाकारकं नगरं निर्मितवान् । नगरं परितः अष्ट मातृका सहितं सेनावासाः रचिताः आसन् । अजिमाः एतेषां नायकाः आसन् । नगरं सम्पदः देव्याः कान्ते नाम्ना कान्तिपुरम् इति नामाङ्कितम् आसीत् । मनगृहमानगृह-कैलासकूटभवन-भद्रादिवासभवन-इत्यादीनां भवनानाम् उल्लेखः कृताः दृश्यन्ते तदानीन्तनैः यात्रिकैः संन्यासिभिश्च । सप्तमशतकस्य लिच्चाविराजस्यलिच्छविराजस्य अंशुवर्मणः प्रासादस्य कैलासकूटभवनस्य उल्लेखः प्रसिद्धेन चैनीयात्रिकेण झुवाङ्ग्जाङ्गेन कृतः दृश्यते ।
 
अग्रे मल्लयुगः आरब्धः । तदा काठ्मण्डु - कान्तिपुर-ललितपुर-भक्तपुर-कीर्तिपुरनामकैः चतुर्भिः नगरैः युक्तम् आसीत् । एतेषां मण्डलानां मध्ये कला-शिल्प-वाणिज्यादिषु विषयेषु महती स्पर्धा भवति स्म इत्यनेन सर्वत्र महती प्रगतिः दृष्टा । विविधाः कलाविदः कलाप्रचाराय देशे विदेशे च बहु अटन्ति स्म । एषियाखण्डस्य बहुत्र तैः कलाप्रचारः कृतः । सार्वजनिकभवनानां, मन्दिराणां निर्माणे, नीतिसंहितायाः सज्जीकरणे, नाटकादीनां लेखने, जनसम्मर्दप्रदेशेषु तस्य प्रदर्शने च स्वयं राजानः एव आसक्तिं प्रदर्शयन्ति स्म । राज्ञः प्रतापमल्लस्य शिलालेखेषु भारत-टिबेट्-चैना-पर्शिया-युरोप्-इत्यादिभ्यः देशेभ्यः प्राप्तानि चिन्तनानि उल्लिखितानि दृश्यन्ते । तन्त्राख्यम्तन्त्राख्यान, हरमेखला (वैद्यकीयम्), मूल्देवशशिदेव (धर्मः), अमरकोशः इत्यादयः ग्रन्थाः अस्मिन् युगे एव रचिताः । अस्मिन् युगे निर्मितानि प्रसिद्धानि भवनानि - कठ्मण्डु दर्बार् स्क्वेर्, पटन्पाटन् दर्बार् स्क्वेर्, भक्तपुर् दर्बार् स्क्वेर्, कीर्तिपुरस्य फ़ार्मर्भूतपूर्व दर्बार्, न्याटपोलन्यातपोल, कुम्भेश्वर, कृष्णमन्दिरं च ।
 
===आधुनिकेतिहासः===
मल्लशासनात् अनन्तरं गोखसाम्राज्यस्य उदयः आधुनिकयुगस्य आरम्भकालः । काठ्माण्डु तेषां राजधानी आसीत् । नव-अट्टयुक्तं बसन्तपुरभवनम् इत्यादीनि नेपालीशिल्पकलायुक्तानि नूतनानि भवनानि निर्मितानि । प्रतिवेशिदेशैः सह जातात् निरन्तरयुद्धात् वाणिज्यं कुण्ठितं जातम् । ग्रेट्ब्रिटन्देशस्य विरुद्धं फ्रान्स्देशेन सह भीमसेनथापेन कृतस्य सन्धेः कारणतः नूतनसेना व्यवस्थापिता जाता । ब्रिटीश्विरुद्धनीतिः ब्रिटीश्परं जातं राणस्य शासनकाले । तदा एव विदेशीशिल्पकलायाः प्रगतिः अत्र दृष्टा । अस्य कालस्य प्रमुखानि भवनानि सन्ति - सिङ्घदर्बार्सिंहदर्बार्, कैसर्महल्, शीतल्निवास्, प्राचीननारायणितिप्रासादःप्राचीननारायणहितिप्रासादः च । 'न्यूरोड्' इत्येषः अस्मिन् युगे निर्मितः आधुनिकवाणिज्यमार्गः ।
 
==भूगोलम्==
"https://sa.wikipedia.org/wiki/काठमाण्डू" इत्यस्माद् प्रतिप्राप्तम्