"काठमाण्डू" इत्यस्य संस्करणे भेदः

पङ्क्तिः २२:
 
==भूगोलम्==
काठ्मण्डुनगरं काठ्मण्डु-उपत्यकायाः वायव्यदिशि विद्यते । अस्य विस्तारः अस्ति ५०.६७ चतरस्रकिलोमीटर्मितम् । समुद्रतीरात् सामान्यम् औन्नत्यं विद्यते १३५० मीटर्मितम् । नगरस्य दक्षिणभागे ललितपुरम्, नैरुत्यदिशि कीर्तिपुरम्, पूर्वदिशि मध्यपुरम्, अन्यासु दिक्षु विविधाः ग्रामाः विद्यन्ते । नगरे अष्ट नद्यः प्रवहन्ति यासु भागमतीबागमती, धोबिखोलविष्णुमती, धोबिखोला, मनोहरा, हनुमन्त्, तुकुचा च मुख्याः सन्ति । एतासां नदीनाम् उगमस्थानरूपाः पर्वताः १५००-३००० मीटर्मिते औन्नत्ये विद्यन्ते । अत्र अधिकतया ओक्, एल्म्, बीच्, मापल् वृक्षाः दृश्यन्ते ।
 
नेपालदेशे पञ्च विभिन्नवातावरणयुक्ताः प्रदेशाः निर्दिष्टाः सन्ति । तेषु काठ्मण्डु-उपत्यका उष्णवातावरणयुक्तः (१२००-२३०० मीटर्-औन्नत्यम्) प्रदेशः इति निर्दिश्यते यत्र वातावरणं हितकरं भवति । उष्णकाले अत्र २८<sup>०</sup>-३०<sup>०</sup> सेण्टिग्रेड्मितं भवति । शैत्यकाले १०.१<sup>०</sup> सेण्टिग्रेड्मितम् उष्णं भवति ।
 
==आर्थिकता==
 
"https://sa.wikipedia.org/wiki/काठमाण्डू" इत्यस्माद् प्रतिप्राप्तम्