"काठमाण्डू" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३२:
नेपालस्य औद्योगिक-वाणिज्यकेन्द्रमस्ति काठ्मण्डु । इदं बहूनां संस्थानां वित्तकोषाणां सङ्घटनानां च मुख्यकेन्द्ररूपेण विद्यते । नगरस्य आर्थिकतायां वाणिज्यस्य २१%, उत्पादनस्य १९%, कृषेः ९%, शिक्षणस्य ६%, परिवहनस्य ६%, उपाहारमन्दिरस्य ५% भागः भवति । नेपालस्य धनिकाः बहवः अत्र यद्यपि निवसन्ति नगरस्य अधिकांशाः जनाः निर्धनाः सन्ति ।
 
{{Wide image|Kathmandu Valley panorama.jpg|900px|स्वयम्भुनाथमन्दिरात्स्वयम्भुनाथचैत्यात् काठ्मण्डु-उपत्यकायाः मनोहरं दृश्यम्}}
 
==प्रवासोद्यमः==
नेपालदेशे प्रवासोद्यमः १९५० तमे वर्षे आरब्धः । ततः देशस्य राजनैतिकी स्थितिः सम्पूर्णतया परिवर्तिता । जगता सह सम्बन्धः आरब्धः । १९५६ तमे वर्षे वैमानिकव्यवस्था आरब्धा, काठ्मण्डु-राक्सर्-एतयोः मध्ये राष्ट्रियमुख्यमार्गः निर्मितः । नेपालदेशः अन्तर-राष्ट्रिय-प्रवासोद्यमसंस्थासु सदस्यत्वं प्राप्नोत् । नगरस्य अधिकांशानां जनानां प्रवासोद्यमः एव जीविका । हिन्दु-बौद्ध-यात्रिणः अत्रत्यानि पशुपतिनाथ, कैलासनाथ-महादेव-प्रतिमा(जगतः अत्युन्नतः शिवमूर्तिः), स्वयम्भुनाथ, बौद्धनाथ, बुधनीलकण्ठ-इत्यादीनां स्थलानां दर्शनाय आगच्छन्ति । यात्रिणां सङ्ख्या निरन्तरं वर्धमाना दृश्यते । हिमालयस्य प्राकृतिकसौन्दर्यं देशस्य वैभवपूर्णा सांस्कृतिकी सम्पत्तिश्च अस्य उद्यमस्य यशस्वितायै प्रमुखाः
"https://sa.wikipedia.org/wiki/काठमाण्डू" इत्यस्माद् प्रतिप्राप्तम्