५,४५७
सम्पादन
No edit summary |
No edit summary |
||
कल्याणम् अनेके कवयः स्वकाव्येषु उल्लिखितवन्तः । द्वादशशतकम् अनुलक्ष्य वदामश्र्चेत् अधिकानि वचनानि अत्रैव सृष्टानि । वचनप्रकारैः कन्नडसाहित्यस्य नूतनं जन्म दत्तम् । १२ शतके कल्याणं स्वर्गम् अतिशेते स्म । कल्याणं दृष्ट्वा स्वर्गस्यापि लज्जा भवति स्म । अत्र सज्जनाः, सहृदयाः, कवयः, पामराः, शिवशरणाः दार्शनिकाः बहवः आसन् । तदा कळचूरीराजः [[बिज्जळः]] राज्यं पालयति स्म । एतस्य समस्तपृथ्वीवल्लभः, समस्तभुवनाश्रयः, त्रिभुवनमल्लः परमेश्र्वरः, परमभट्टारकः इत्यादयः बिरूदाः आसन् ।
एतस्य मन्त्री आसीत् भक्तिभण्डारी [[
कल्याणे बसवण्णस्य प्रभावः अगाधः आसीत् । अन्येभ्यः कल्याणम् आगत्य कायकं बहवः कृतवन्तः । एतादृशानां महापुरूषाणां संख्या महति एव आसीत् । चोळदेशतः मादरचेन्नय्यः, माळवतः डोहारकक्कय्यः, काश्मीरतः मोळिगेमारय्यः, राणीमहादेवी च, अपघानिस्थानतः मरूळशङ्करदेवः उरिलिङ्गपेद्दी दम्पती च, प्रभुदेवः, अक्कमहादेवी, सिध्दरामय्यः, अजगण्णः मुक्तायक्का, गुजराततः आदय्यः, शान्तिनाथः, बिजापुरतः मडिवाळमाचीदेवः, किन्नरीबोम्मय्यः, अम्बिगरचौडय्यः, गाणदकन्नप्पः, हरळय्यः, अक्कनागम्मा, गङ्गम्मा, चिक्कय्यः सोमव्वा - एवं सहस्राधिकाः शिवशरणाः कल्याणमागताः । अत्र वासमपि कृतवन्तः कल्याणं पवित्रं कृतवन्तः । एतेषां स्मरणमेव अस्माकं सौभाग्यम् ।
|