"बसवकल्याणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) added Category:कर्णाटकस्य प्रमुखनगराणि using HotCat |
No edit summary |
||
पङ्क्तिः ७१:
कल्याणम् अनेके कवयः स्वकाव्येषु उल्लिखितवन्तः । द्वादशशतकम् अनुलक्ष्य वदामश्र्चेत् अधिकानि वचनानि अत्रैव सृष्टानि । वचनप्रकारैः कन्नडसाहित्यस्य नूतनं जन्म दत्तम् । १२ शतके कल्याणं स्वर्गम् अतिशेते स्म । कल्याणं दृष्ट्वा स्वर्गस्यापि लज्जा भवति स्म । अत्र सज्जनाः, सहृदयाः, कवयः, पामराः, शिवशरणाः दार्शनिकाः बहवः आसन् । तदा कळचूरीराजः [[बिज्जळः]] राज्यं पालयति स्म । एतस्य समस्तपृथ्वीवल्लभः, समस्तभुवनाश्रयः, त्रिभुवनमल्लः परमेश्र्वरः, परमभट्टारकः इत्यादयः बिरूदाः आसन् ।
एतस्य मन्त्री आसीत् भक्तिभण्डारी [[बसवेश्वरः]] । एषः कालः सुवर्णाक्षरैः लेखनीयः । समग्रदेशे कल्याणमिति शब्दं श्रुत्वा जनाः आनन्दम् अनुभवन्ति स्म । प्रपञ्चस्य प्रथमलोकसभा इति कथ्यमानः । अनुभवमण्डपः कल्य़ाणे स्थापितः आसीत् ।
कल्याणे बसवण्णस्य प्रभावः अगाधः आसीत् । अन्येभ्यः स्थानेभ्यः कल्याणम् आगत्य कायकं
वचनप्रकारः कन्नडसाहित्ये विनूतनः विषयः । एषः कल्याणतः एव आरब्धः सदा आढ्यानां गृहे या साहित्यदेवी वसन्ती आसीत् सा निर्धनानां ग्रहमपि आगतवती । अत्र आगत्य तानपि साहित्यकृतिनिर्माणार्थं प्रेरितवती । एषः श्लाघनीयः विषयः । कल्याणभूमिः शिवशरणानां वासभूमिः जाता, कर्मभूमिश्र्च जाता १२ शतके । बसवण्णः यदर्थं कल्याणमागतवान् तदर्थमेव शिवशरणाः आगतवन्तः। तेन भगवान् अल्लमप्रभुः अत्र सुस्थितः । कल्याणे दीपज्वालनाय बहवः सहकारं दत्तवन्तः । सर्वेषामुद्देशः एक एव सः प्रकाशत।
|