"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २०:
 
आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम उडुपी नगरस्य समीपे अस्ति । मध्वाचार्यो मध्यगेहभट्ट - वेदवती इति दम्पत्यो: पुत्र:। मातापितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्याद् नामदीक्षां स्वीकृतवान् । आचार्य अच्युतप्रज्ञो वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं दृष्ट्वा आचार्य: 'आनन्दतीर्थ' इति नाम दत्तवान् । आनन्दतीर्थ: 'मध्व' इति अङ्कितेन तत्त्ववादग्रन्थान् रचितवान् । अतः तस्य सिद्धान्तस्य नाम ' तत्ववादः ' इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध:।
==इतिहासः==
[[मध्वविजयः]] इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं वैशिष्ट्यं प्रदर्शयति ।अयं मध्वाचार्यः हनुमान्-भीम-अवतारयोः परं मुख्यप्राणस्य अवतारः इति प्रख्यातम् ।
 
==मध्वाचार्यस्य कृतयः==
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्