"अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Modifying en:Padmanabhaswamy Temple
(लघु) spell correct
पङ्क्तिः ७:
देवस्थानस्य सर्वाणि आभरणानि पुरा वणिग्भिः, यात्रिभिः राजवंशस्थैः भक्तजनैः समर्पितानि सन्ति । इतिहासज्ञैः उच्यते यत् एतत् कररुपेण वा परितोषिकरूपेण राज्ञे समर्पितं स्यात् । अथवा युध्दे विजयम् अवाप्य अधीनराज्यस्य आभरणानि सुरक्षा दृष्ट्या अत्र निक्षिप्तानि स्युः । मध्ययुगे मन्नार प्रदेशात् वा जाफ़्नाप्रदेशात् ये वणिजः आगच्छन्ति स्म ते तथा अन्ये यात्रिकाः देवस्थानस्य अस्य भक्ताः आसन् । १५८७ तमे वर्षे तिरुवनन्तपुरस्य देवस्थानस्य नाशः अभवत् । केभ्यश्चित् वर्षेभ्यः अनन्तरं गोपुरं निर्मितम् ।
देवस्थाने आहत्य ६ भूम्यन्तरगुहाः सन्ति । ताः क्रमात् ‘ए’ ‘बि’ इति नामाङ्कितानि सन्ति । ‘ए’ ‘बि’ भुम्यन्तरगृहाः १३० वर्षेभ्यः नोद्घाटिताः । ‘सि’ तः 'एफ़्'पर्यन्तं विद्यमानाः गुहाः तदा तदा पूजार्थं, धार्मिकक्रियार्थम् आभरणानि उपयोक्तुं च उद्घाट्येते।, एतदर्थं उच्चन्यायालयेन आदेशः प्रदत्तः अस्ति । ‘ए’ तथा ‘बि’ भूम्यन्तरगृहं स्वर्णाभरणशोधनार्थं उद्घाट्य अनन्तरं द्वारं पिहितं स्यात् ।
‘बि’ भूम्यन्तर्गृहस्य अन्तः किमस्ति इति तज्ञाः अपि कुतूहलिनः सन्ति । तस्य उद्घाटनविषये निर्धारयितुम्, उच्च न्यायालयॆनन्यायालयेन समितिः उपस्थापिता अस्ति । समितौ अष्टसदस्याः सन्ति । आभरणानां मौल्यमापनं, ‘बि’ भुम्यन्तर्गृहस्य विषयोऽपि ते परिशीलनं कुर्वन्ति ।
== देवस्थानस्य इतिहासः==