"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) spell correct
पङ्क्तिः ५:
 
==ऐतिहासिकी पृष्ठभूमिः==
एवं किलानुमीयते यद् बालानां लालने पालने च हार्दं दधानाः मातरः तॆषांतेषां मनोरञ्जनाय पूर्वं स्वयं मधुरसंलापेन नानाविध-मुखसुख-वितरणेन विविधश्रुतिसुखदैःनिनदैः कर-तल-कलितैः शब्दैः च तान् व्यनोदयन् । ततः परं कृत्रिमैः क्रीडनकैः तान् क्रीडनाय प्रेरयन्त्यो जागतिकैः पदार्थैः परिचाययन्त्यः कैश्चिदुपकरणविशेषैः खेलितुं प्रावर्तयन् । इत्थम् उपकरण-माध्यमेन संसारस्य स्थितिं गतिं बोधयितुं लघु-लघूनि क्रीडनकानि सृष्टानि, येषु ब्रह्माण्ड-पिण्डावबोधाय ‘कन्दुकसृष्टिः’ सर्वथा समीचीनाऽभवत् ।
 
कन्दुकेन क्रीडनं शैशवात् एव आरभ्यते, यथा यथा वयो वर्धते तस्य खेलाविधिषु अपि वैविध्यं विशति । करतलेन कन्दुकस्य उत्पातन-निपातने ग्रहण- क्षेपणे तथा प्रताडनादिविधयः सत्यमेव मनसः प्रसादनाय अलम् भवन्ति । पूर्वं पाषाणनिर्मितेन ततः परं काष्ठनिर्मितेन कन्दुकेन क्रीडाऽभवत् । वैज्ञानिके युगे द्रव- विशेष (रबर्)-निर्मितानां कन्दुकानां प्रसारः अवर्धत । आक्रुत्या दर्शनीयं प्रक्रूत्या स्पर्शनीयं भारवर्जितं मृदुलं कन्दुकं बालाः क्रीडनेषु नितान्तं प्रमुद्य प्रायुञ्जन् । मानवस्यायं स्वभावो विद्यते यत् सः स्वबुद्धिबलोदयेन किमपि नूतनं नूतनमेव वाञ्छति । एतत्कारणात् एव प्राक्तनं कन्दुकं कदाचित् स्थूल-स्थूलं विधातुम् अचेष्टत कदाचित् च सूक्ष्माति -सूक्ष्मम् । सामान्याभ्यो गुटिकाभ्यः आरभ्य चर्मनिर्मितस्थूलकन्दुकनिर्मितिं यावत् साम्प्रतं कन्दुक- सृष्टिः सर्वत्र विधीयते ।
"https://sa.wikipedia.org/wiki/कन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्