"दक्षिण अमेरिका" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding uz:Janubiy Amerika
(लघु) spell correct
पङ्क्तिः ३२:
[[चित्रम्:Iguazu Décembre 2007 - Panorama 7.jpg|thumb|center|800px|इगुझुजलपातः]]
== पर्वताः ==
पश्चिमकरालीप्रदेशस्य समानान्तरे कोलम्बियायाः उत्तरतः दक्षिणकोलेरोडोखातपर्यन्तम् एण्डीस् पर्वतश्रेण्यः सन्ति । समभाजकवृत्ततः इक्वाडर्देशे ५८९७ मी उन्नतः कोटोपाक्सि, ६२६८ मी उन्नतः चेम्बोराजोशिखरौ स्तः । पेरुदेशे ६७६८ मी उन्नतः हुवास्करन्, ६६३२ मी उन्नतः येरुपाज, ६३८४ मी उन्नतः उत्तर जौसङ्गटे, ६४२५ मी उन्नतः नोडो कोकोपुना शिखराणि विद्यन्ते । बोलिवियादेशे ७०१८ मी उन्नतः अङ्कोहुमाशिखरं विद्यते । बोलिविया-चिलिदेशयोः बोलिविया-उपत्यका विद्यते । पोपो टिटिकाकासरोवरौ अत्रैव विद्यन्ते । अर्जॆण्टिनायांअर्जेण्टिनायां ६८६३ मी उन्नतः जजोस्डेल्, सलाडो, ६२५० मी उन्नतः पमाटीना, ६३८० मी उन्नतः कोडेल्टोरो, ७०२० मी उन्नतः अकङ्कागुवशिखराणि सन्ति । चिलिदेशे ५९७० मी उन्नतः सैरेकबुर्, ६७२३ मी उन्नतः उलैलको शिखराणि सन्ति । एण्डीस्पर्वतानां दक्षिणभागे पटगोनियनामिका शुष्कमरुभूमिः विद्यते । ब्राझिलस्य पूर्वार्धे उन्नताः प्रदेशाः सन्ति । गयानायां गयाना-उन्नतप्रदेशाः सन्ति । एतेषु प्रदेशेषु २०००-३००० मी उन्नतानि शिखराणि विद्यन्ते ।
== सस्यसम्पत्तिः ==
=== मृत्तिका ===
अस्मिन् खण्डे उत्तमा मृत्तिका विद्यते । अटकाम पटगोनियामरुभूम्योः सिकतायुता मृत्तिका विद्यते । इयं सस्यवर्धनाय उत्तमा नास्ति । अर्जेण्टिनायाः उत्तरभागे उरुग्वेदेशे ब्रेझिल्पूर्वभागेषु कपीशवर्णीया मृत्तिका विद्यते । इयम् उत्तमाय शाद्वलाय अनुकूला अस्ति । एण्डीस्-श्रेणीषु पर्वतीयमृत्तिका विद्यते ।
=== सस्यानि ===
अमेजान्-खातम्, ब्रेझिलस्य पूर्वकरावली-पर्नैबानदीखातम्, वेनेज्वेलस्य पश्चिमार्धभागः, कोलम्बियायाः दक्षिण-पश्चिमभागे, इक्वाडर्, पेरु (करावलीरहितम्), बोलिविया, पेराग्वे, अर्जिण्टिनायाः उत्तरभागः केचन, चिलिदेशस्य दक्षिणभागः इत्येतेषु अरण्यानि सन्ति । अमेजान्खाते समभाजकवृत्तस्य वृष्टि-अरण्यानि विद्यन्ते यत्र नित्यहरिद्वर्णयुक्तानि सस्यानि पर्णपातसस्यानि च विद्यन्ते । महोगनि-रब्बर्-वृक्षाः अत्र अधिकाः । ब्रेझिलस्य उत्तमकृषिभूमौ कदली, तमाखुः, यावानलः, इक्षुदण्डः, कार्पासः च वर्धन्ते । काफी फलानि च वर्धन्ते अत्र । उरुग्वेदेशे व्रीहिः, इक्षुदण्डः, अर्जेणीनादेशे गोधूमः, चायं, यावानलः, फलानि च वर्धन्ते । पराग्वेदेशे यावानलः, चिलिदेशे गोधूमः, व्रीहिः, गयानायां व्रीहिः, इक्षुदण्डः, वेनेज्वेलायां व्रीहिः, काफी, कोलम्बियादेशे काफी, व्रीहिः, यावानलः, इक्वाडर्दॆशेइक्वाडर्देशे कदली, काफी, यावानलः, इक्षुदण्डः, पेरुदेशे गोधूमः, काफी, यावानलः, इक्षुदण्डश्च वर्धन्ते । अर्जेण्टिनायाः पटगोनियाप्रदेशे बोलिवियायाञ्च क्षीरकृषिः विद्यते । ब्राझिल्, उरुग्वे, वेनेज्वेल्, अर्जेण्टिनायाः उत्तरभागः इत्येतेषु मांसनिमित्तं गावः वर्धन्ते । ब्रेझिल्देशे अनेकविधानि दारूनि, टेम्बो (एतेन क्रिमिनाशकं निर्मान्ति), येर्बामट् (चायविधम्), सिञ्चोना (एतेन क्षयरोगनिवारकं क्विनिन् उत्पाद्यते), रब्बर्वृक्षः, अनेकविधानि अर्चिड्सस्यानि च वर्धन्ते ।
== प्राणिपक्षिणः ==
अत्र सामान्यगात्रकाः अनेके वन्यप्राणिनः विद्यन्ते । विविधाः वानराः, रक्तहरिणः, टापिर्, तरक्षुः, पुमा, ओसेलाट्, स्लाथ्, पिपीलिकाखादयता प्राणी, अर्माडिलो इत्यादयः वन्यप्राणिनः सन्ति । सर्वदा शुकाः, मकाव्-पक्षिणश्च गणशः अत्र उड्डयन्ति । बृहत्जलूकाः, असङ्ख्याः जतुकाः च अत्र वसन्ति । अत्र ३०,००० अपेक्षया अधिकाः पतङ्गाः सन्ति । अमेजान्-नद्यां २०,००० अपेक्षया अधिकाः विविधाः मीनाः सन्ति । नदीमुखजप्रदेशे शार्क्, खड्गमीनः, कर्कटकः, समुद्रवल्ली इत्यादीः आहाराय अधिकप्रमाणेन गृह्णन्ति । चिलिदेशः भौगोलिकदृष्ट्या अनानुकूलांशैः युक्तः अनेकैः द्वीपैः युक्तः, पर्वतश्रेणिभिः, मरुभूमिभिः युक्तः कश्चन देशः । अत्र वन्यजीविनः अल्पाः । ४०% अक्षांशस्य दक्षिणभागे सरोवरैः युक्तानि अरण्यानि सन्ति । अरण्येषु सैपेन्, ओक, सूचीपर्णीवृक्षाः वर्धन्ते । अस्याः रेखायाः उत्तरदिशि फलयुक्तः प्रदेशः शाद्वलानि च विद्यन्ते । इतः अग्रे मरुभूमियुक्तारण्येषु पुमाप्राणी दृश्यते सामान्यतः । वनमार्जालः, चिञ्चिला च पर्वतप्रदेशेषु वसन्ति । उलूकः, गृध्रः च अत्र दृश्यन्ते । द्वीपसमूहानां महध्ये समुद्रेषु तरणपटवः पक्षिणः दृश्यन्ते ।
"https://sa.wikipedia.org/wiki/दक्षिण_अमेरिका" इत्यस्माद् प्रतिप्राप्तम्