"पुरुषोत्तमदास टण्डन" इत्यस्य संस्करणे भेदः

(लघु) spell correct
पङ्क्तिः २२:
 
==कार्यक्षेत्रम्==
पुरुषोत्तमदासः टण्डन् अत्यन्तं मेधावी बहुमुखप्रतिभासम्पन्नः धनवान् च आसीत् । अस्य कार्यक्षेत्रं मुख्यतः त्रिषु भागेषु विभक्तम् असीत् । [[भारतस्य स्वातन्त्र्यसङ्ग्रामः]], साहित्यम्, समाजः च इति विभागेषु कार्यं कृतवान् । स्वातन्त्र्यसङ्ग्रामे टण्डन् वर्यः कस्यचित् योधस्य भूमिकां कृतवान् । स्वस्य छात्रजीवने क्रि.श. १८९९तमे वर्षे काङ्ग्रेस्पक्षस्य सदस्यः सन् अलहाबादस्य भारतीयकाङ्ग्रेस्पक्षस्य प्रतिनिधित्वेन चितः । क्रि.श.१८९९तमे वर्षे [[जलियन्वालाबागहत्याकाण्डम्|जलियन्वालाबागहत्याकाण्डस्य]] अध्ययनं कर्तुं नियोजितस्य काङ्गेस्पक्षस्य समितौ सदस्यः अभवत् । क्रि.श. १९२०तमे वर्षे सञ्चालिते [[असहकारान्दोलनम्|असहकारान्दोलने]] [[महात्मा गान्धिः|गान्धिमहोदयस्य]] आह्वानम् अङ्गीकृत्य सफलां न्यायवादिनः वृत्तिं त्यक्त्वा सङ्ग्रामभूमौ कूर्दितवान् । क्रि.श. १९३०तमे वर्षे करतिरस्कारान्दोलने भागम् वहन् बस्ती इति स्थाने आरक्षकैः बद्धः कारावारवासम् अनुभूतवान् । क्रि.श. १९३१तमे वर्षे [[लण्डन्]]नगरे आयोजिते वर्तुलोत्पीठिकासम्मेलने महात्मनः गान्धेः निर्गमनात् पूर्वं यॆषांयेषां स्वातन्त्रयोधानां बन्धनं कृतवन्तः तेषु एतेन सह [[जवाहरलालनेहरुः ]] अपि आसीत् । क्रि.श. १९३४तमे वर्षे एषः [[बिहारम्|बिहारस्य]] प्रादेशिककृषकसभायाः अध्यक्षपदे नियुक्तः अभवत् । बिहारस्य कृषकान्दोलनस्य विषये कारुण्यवान् पुरुषोत्तमः तेषां विकासार्थम् अनेककार्याणि कृतवान् । टण्डन् वर्यः निरन्तरं [[भारतस्य स्वातन्त्र्यसङ्ग्रामः|स्वातन्त्र्यसङ्ग्रामे]] निरतः आसीत् । अतः ब्रिटिश् आरक्षकाः एतं क्रि.श. १९४०तमे वर्षे एतम् एकवर्षं यावत् गृहबन्धने स्थापितवन्तः । क्रि.श. १९४२तमवर्षस्य आगस्ट्मासे अलहाबादनगरे पुनः आरक्षकैः बद्धः क्रि.श.१९४४तमे वर्षे विमुक्तः । एषा टण्डन् वर्यस्य पञ्चमी तथा अन्तिमा कारावारयात्रा अभवत् । क्रि.श. १९३७तमवर्षस्य जुलै ३१तः क्रि.श. १९५०तमवर्षस्य अगस्ट्मासस्य दशमदिनपर्यन्तम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] विधानसभायाः प्रवक्तृरूपेण नियोजितः । क्रि.श. १९४६तमवर्षे [[भारतम्|भारतस्य]] संविधानरचनसभायाः सदस्यत्वेन चितः ।
 
==साहित्यसेवा==
पङ्क्तिः २८:
 
==हिन्दीभाषाप्रोत्साहनम्==
राजर्षिः बाल्यकालादेव [[हिन्दीभाषा]]याः अनुरागी आसीत् । एषः अनुरागः प्रवर्धितः पण्डितबालकृष्णवर्येण [[मदनमोहनमालवीयः|मदनमोहनमालवीयेन्]] च । क्रि.श. १९१०तमवर्षे अक्टोबरमसस्य दशमे दिने [[काशी]]नगरे हिन्दीसाहित्यसम्मेलनस्य प्रथमाधिवेशनं मालवीयस्य आध्यक्ष्ये सम्पन्नम् । राजर्षिः टण्डन् सम्मेलनस्य मन्त्रित्वेन नियुक्तः आसीत्। अग्रे साहित्यसम्मेलनस्य माध्यमेन [[हिन्दीभाषा]]याः अत्यधिकां सेवामकरोत् । राजर्षिः टाण्डन् हिन्दीभाषायाः प्रसारप्रचारार्थं हिन्दीविद्यापीठं [[प्रयागः|प्रयागे]] प्रतिष्ठापयत् । हिन्दीभाषायाः शिक्षाप्रसारः आङ्ग्लभाषाप्रभावस्य न्यूनीकरणं च अस्य पीठस्य स्थापनायाः उद्देशः आसीत् । एतत् सङ्घटानम् अनेकाः [[हिन्दीभाषा]]परीक्षाः सञ्चालयति स्म । अनेन दक्षिणभारते अपि [[हिन्दीभाषा]]याः प्रसारः अभवत् । संस्थायाः एतेषां कार्याणां प्रभावः महिलाविश्वविद्यालयस्य महिलाविद्यायस्य उपरि अभवत् । अनेकेषु महाविद्यालयेषु विश्वविद्यालयेषु च [[हिन्दीभाषा]] पाठ्यक्रमे प्रवेशिता । क्रि.श. १९४९तमे वर्षे यदा संविधानसभासम्बद्धप्रश्नः आगतः तदा काचित् विचित्रा स्थितिः उत्पन्ना । महात्मा गान्धिः तु हिन्दुस्तानीसमर्थकः एव आसीत् । पण्डितनॆहरुःपण्डितनेहरुः तथा डा.[[राजेन्द्रप्रसादः]] अन्यनेतारः च हिन्दुस्तानीपक्षे एव आसन् । किन्तु राजर्षिः पुरुषोत्तमः न पराजितः अवनतः च |परिणामतः विजयः अपि अनेन एव प्राप्तः । क्रि.श. १९४९तमवर्षस्य डिसेम्बर् मासस्य ११-१४पर्यन्तं हिन्दी तथा हिन्दुस्तानि विषये काङ्ग्रेस् सभायां घर्मचर्चा प्रचलिता । पश्चात् मतदानप्रक्रिया अभवत् । हिन्दीभाषाहिते ६२मतानि हिन्दुस्तानीहिते ३२मतानि आगतानि । पश्चात् काङ्गेस् पक्षस्य सभायां हिन्दी राष्ट्रभाषा देवनागरी राजलिपिः इति समघोषयन् । वन्देमातरं गीतं राष्ट्रगीतं कर्तुं राजर्षिः टण्डन् स्वसहयोगिभिः सह अभियानं चालितवान् । अस्य अनुमोदनपूर्वकं कोटिशः जनानां हस्ताक्षराणि स्वीकृतवान् । समर्थनपत्राणि अपि एकत्र कृतवान् ।
 
==विवादः==
"https://sa.wikipedia.org/wiki/पुरुषोत्तमदास_टण्डन" इत्यस्माद् प्रतिप्राप्तम्