"समासः" इत्यस्य संस्करणे भेदः

(लघु) spell correct
पङ्क्तिः २:
समयपालनस्य प्रवृत्तिः प्राचीनकालादेव अस्ति । अधुना तु जनाः अजस्रं कार्यार्थं धावन्तः दृश्यन्ते । ते अल्पेनैव कालेन बहु किमपि साधयितुम् इच्छन्ति । एतादृशि समये यदि वयं वदामः यत् "द्वादशभिर्वर्षैः व्याकरणं श्रूयते ततो मन्वादीनि धर्मशास्त्राणि ततः अर्थशास्त्राणि चाणक्यादीनि, कामशास्त्राणि वात्स्यायनादीनि। एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते, ततः प्रतिबोधनं भवति।" इति तर्हि प्रायः न कश्चिदपि व्याकरणपठनाय सिद्धः भवेत् ।<br />
अधुना जनाः सिद्धं, सरलं, सङ्क्षेपञ्च इच्छन्ति । उक्तमपि वर्तते "सङ्क्षेपरुचिर्हि लोकः" इति। मन्ये प्रायः सङ्क्षेपस्य एतादृशी भावना एव समासप्रयोगे प्रयोजिका वर्तते इति । समासकारणेन कियान् सङ्क्षेपः भवतीति उदाहरणद्वयेन स्पष्टं कर्तुमिच्छामि ।<br />
यदा अस्माभिः वक्तव्यं भवति यत् "यः भोजनं कृतवान् अस्ति तम्" आह्वयतु इति, तदा एतस्य वाक्यस्य स्थाने "कृतभोजनम्" आह्वयतु इति कथनेनैव इष्टसिद्धिः भवति । तथैव "यः पीतानि अम्बराणि धृतवान् अस्ति सः" श्रीकृष्णः इति एतस्य वाक्यस्य स्थाने "पीताम्बरः" श्रीकृष्णः इत्यनेनैव अर्थबोधः जायते । एवमेव ’शक्तिमनतिक्रम्य’ इत्येतस्य स्थाने यथाशक्ति इति कथनेनैव इष्टसिद्धिः भवति। यदि एतादृशानां लघुवाक्यानां प्रयॊगॆणप्रयोगेण एव अर्थबॊधःअर्थबोधः जायतॆ तर्हि तावत् लम्बायमानं वाक्यं किमर्थं वा वदेम।
यद्यपि कण्ठेकालः, जनुषान्धः, परस्मैपदम्, आत्मनेपदम् इत्यादिषु समासः अस्ति परं सङ्क्षेपः न दृश्यते इति अवभासते तथापि अस्माभिरवगन्तव्यं यत् समासात् प्राक् तत्र पदद्वयमासीत्, समासकरणेन एकं पदं जातमित्येव सङ्क्षेपः इति ।
वस्तुतः समासस्य प्रयोजनम् ऐकपद्यम् ऐकस्वर्यञ्च वर्तते । उक्तञ्च काशिकायाम्- ’समासस्य प्रयोजनम् ऎकपद्यम् ऎकस्वर्यञ्च’ इति। एकपदत्वम् एकस्वरत्वञ्च सर्वसमासेषु भवत्येव ।<br />
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्