"हिमालयः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 126 interwiki links, now provided by Wikidata on d:q5451 (translate me)
पङ्क्तिः ११०:
 
== '''प्राचीनसाहित्ये हिमालयः''' ==
:- अयं पर्वतः प्राचीनेषु ग्रन्थेषु हिमवत्, हिमवान्, हिमाचलः, हिमाद्रिः, हैमवत् इत्यादिभिः नामभिः निर्दिष्टः अस्ति । [[अर्जुनः|अर्जुनस्य]] [[बलरामः|बलरामस्य]] च यात्रा, [[भीमः|भीम]][[दुर्योधनः|दुर्योधनयोः]] गदायुद्धं, पाण्डवानां स्वर्गारोहणं च अस्मिन् एव अभवन् । हिमालयः अत्यन्तं श्रेष्ठः । श्रीकृष्णः [[भगवद्गीता|भगवद्गीतायां]] “स्थावराणां हिमालयः अहम्” इति उक्तवान् अस्ति । “अयं वर्षपर्वतः पूर्वसमुद्रतः पश्चिमसमुद्रपर्यन्तं पसृतः अस्ति” इति उक्तम् अस्ति [[मार्कण्डेयपुराणम्|मार्कण्डेयपुराणे]] । “अयं पूर्वतः पश्चिमदिशि १०८० योजनं यावत् प्रसृतः अस्ति” इति उक्तम् अस्ति [[कूर्मपुराणम्|कूर्मपुराणे]] । [[मत्स्यपुराणम्|मत्स्यपुराणे]] समग्रे एकस्मिन् अध्याये हिमालयस्य फल-पुष्पसम्पत्तेः वर्णनम् एव कृतम् अस्ति । सर्वासां नदीनां मातृरूपिणी देवगङ्गा उद्भूता हिमालये एव । माता [[पार्वती]] अपि हिमपर्वतस्य एव पुत्री इति अस्माकं विश्वासः । तस्याः कारणतः एव हिमालयस्य अत्युन्नतं शिखरं “गौरीशङ्करः” इति नाम्ना निर्दिष्टः ।
 
हिमालयस्य भव्यतया, दिव्यतया, गहनतया, महानतया च मन्त्रमुग्धाः साहित्यकाराः कवयः वा सहस्रशः सन्ति । तेषु महाकविः कविकुलगुरुः [[कालिदासः]] अपि अन्यतमः । कालिदासस्य [[कुमारसम्भवम्|“कुमारसम्भव”]]काव्यस्य प्रथमे श्लोके एव हिमालयस्य प्रशंसा कृता अस्ति ।
पङ्क्तिः ११७:
कालिदासस्य [[रघुवंशम्|“रघुवंशम्”]] [[मेघधूतम्|“मेघधूतम्”]] इति काव्येषु अपि हिमालयस्य वर्णनं महता प्रमाणेन कृतम् अस्ति । रामस्य धैर्यं “स्थैर्येण हिमवानिव” इति हिमालयेन सह तोलितवान् अस्ति [[वाल्मीकिः]] । [[भारविः]] [[किरातार्जुनीयम्|किरातार्जुनीये]] हिमालयस्य तोलनं वेदैः सह कृतवान् अस्ति । वेदान्तमिव हिमलयः अपि मोक्षदायकः इति तेन उक्तम् अस्ति ।
 
अनेकेषाम् ऋषिमुनीनाम् आश्रमाः आसन् हिमालये । महर्षेः वसिष्ठस्य आश्रमः आसीत् हिमालयस्य उपत्यकायाम् । तमसातीरे वाल्मीकिमहर्षेः आश्रमः आसीत् । मालिनीनद्याः तीरे [[कण्वः|कण्वाश्रमः]] आसीत् । [[व्यासः|व्यासाश्रमः]] आसीत् बदरीसमीपस्थे “माण”नामके ग्रामे । तत्रत्यायां गुहायाम् उपविश्य एव व्यासमहर्षिः [[महाभारतम्|“भारतं”]] [[भागवतम्|“भागवतं”]] च अरचयत् । हिमालये तपस्विनां परम्परा प्राचीनकालादपि अव्याहतरूपेण अस्ति । ब्रह्मपुत्रः तपः आचरत् अत्रैव । प्रलयकाले [[मनुः]] अस्य एव नगाधिराजस्य आश्रयं प्राप्य तपः आचरत् । आचार्यत्रयाणां [[शङ्कराचार्यः|शङ्करस्य]] [[मध्वाचार्यः|मध्वस्य]] [[रामानुजाचार्यः|रामानुजस्य]] च साधनस्य प्रेरणामूलं हिमालयः एव । अर्वाचीनकाले अपि महर्षिदयानन्दं, स्वामिश्रद्धानन्दं, [[विवेकानन्दः|विवेकानन्दं]], रामतीर्थं, शिवानन्दम्, अखण्डानन्दं, गुरूजि-गोल्वल्करं चापि आकर्षत् हिमालयः । अस्याः पवित्रभूमेः मङ्गलमयस्य वातावरणस्य प्रभावः अस्ति तादृशः । तस्मात् एव अनेके साधवः, सज्जनाः, विरागिणः वा भगवत्प्राप्त्यर्थम् आत्मसाक्षात्कारार्थं च अद्यापि हिमालयं गच्छन्ति । हिमाच्छादितानि शुभ्रधवलानि शिखराणि, साक्षात् नभःस्पर्शिनः गिरयः, गभीराणि खातानि , वेगेन प्रवहन्त्यः नद्यः, गहनानि अरण्यानि, विविधाः फलपुष्पपूर्णाः वृक्षाः च हिमालयस्य वैभवं वर्धयन्ति । एतादृशेन वैभवेन मनः प्रमुदितं भवति । धर्मक्षेत्रे,संस्कृतिक्षेत्रे, साहित्यक्षेत्रे, कलाक्षेत्रे, सङ्गीतक्षेत्रे, शिल्पादिषु क्षेत्रेषु अस्माकं जीवनस्य सर्वेषु क्षेत्रेषु अपि हिमालयस्य प्रभावः महान् एव । अयम् अस्माकं दृष्ट्या केवलं शिलामृद्युक्तः गिरिः न । सः हिमालयः, सः देवालयः, परशिवस्य आलयः सः इत्येव अस्माकं विश्वासः ।
 
== '''हिमालये विद्यमानानि तीर्थक्षेत्राणि''' ==
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्