"आर्द्रकम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 86 interwiki links, now provided by Wikidata on d:q35625 (translate me)
No edit summary
पङ्क्तिः १:
[[चित्रम्:Ingwer 2 fcm.jpg|thumb|200px|left|आर्द्रकम्]]
[[चित्रम्:Gingerfield.jpg|thumb|200px|right|आर्द्रकक्षेत्रम्]]
एषा शुण्ठी अपि [[भारतम्|भारते]] वर्धमानः कश्चन कन्दविशेषः । शुण्ठी अपि सस्यजन्यः आहारपदार्थः । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति उव्यते । अस्याः शुण्ठ्याः सस्यशास्त्रीयं नाम अस्ति Coriandrum satirum इति । '''संस्कृते अशुष्कां शुण्ठीम् आर्द्रकम् इति वदन्ति, शुष्कां च शुण्ठी इति । अस्याः शुण्ठ्याः महौषधं, विश्वं, नागरं, विश्वभेषजं, शृङ्गवेरं, विश्वौषधं, कटुभद्रम्''' इत्यादीनि अन्यानि अपि नामानि सन्ति ।
 
चरकः स्वस्य चरकसंहितायाम् अर्द्रकं विश्वभेषजम् इति स्तौति । एषा शुण्ठी कटुरसयुक्ता, उष्णवीर्या च । एषा स्निग्धगुणयुक्ता अपि । अयं अत्युत्तमः पाचकः इति कारणेन शरीरे स्थितेन अजीर्णेन अहारेण जायमानान् अनेकान् रोगान् निवारयति । तेन सह स्वस्य तीक्ष्णमुणेन शरीरे स्रोतसाम् अवरोधमपि निवारयति । एताभ्यां द्वाभ्यां गुणाभ्यां आर्द्रकं सामान्यतः सर्वान् रोगान् उपशमयितुं शक्नोति । शुष्कम् आर्द्रकं शुण्ठिः इति कथ्यते ।
एषा शुण्ठी अपि [[भारतम्|भारते]] वर्धमानः कश्चन कन्दविशेषः । शुण्ठी अपि सस्यजन्यः आहारपदार्थः । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति उव्यते । अस्याः शुण्ठ्याः सस्यशास्त्रीयं नाम अस्ति Coriandrum satirum इति । '''संस्कृते अशुष्कां शुण्ठीम् आर्द्रकम् इति वदन्ति, शुष्कां च शुण्ठी इति । अस्याः शुण्ठ्याः महौषधं, विश्वं, नागरं, विश्वभेषजं, शृङ्गवेरं, विश्वौषधं, कटुभद्रम्''' इत्यादीनि अन्यानि अपि नामानि सन्ति ।
 
 
===आयुर्वेदस्य अनुसारम् अस्याः शुण्ठ्याः स्वभावः===
[[चित्रम्:Koeh-146-no text.jpg|thumb|150px|left|शुण्ठीसस्यं, पुष्पं, सस्यस्य अधोभागे शुण्ठी च]]
[[चित्रम्:Ginger in China 01.jpg|thumb|200px|right|विक्रयणार्थं संस्थापिताः विभिन्नाः शुण्ठ्यः]][[चित्रम्:Ginger ale.jpg|thumb|150px|left|शुण्ठ्या निर्मितं पानीयम्]] [[चित्रम्:Ginger powder.JPG|thumb|200px|right|शुण्ठीचूर्णम्]][[चित्रम्:Ginger tea-01.jpg|thumb|right|200px|शुण्ठीचायम्]]
एषा शुण्ठी कटुरसयुक्ता, उष्णवीर्या च । एषा स्निग्धगुणयुक्ता अपि
 
:'''“शुण्ठी कटूष्णा स्निग्धा च कफसोफानिलापहा ।'''
:'''शूलबद्धोदराध्मानश्वासश्लीपदनाशिनी ॥“''' (राजकोषे पिप्पल्यादिवर्गः)
 
==आर्द्रके विद्यमानाः अंशाः ==
आर्द्रके ८०% आर्द्रता, २.३% प्रोटीन्, २.४% (फैबर्) सूत्रम्, १२.३% कार्बोहैड्रेट्, खनिजांशाः –क्याल्सियं फास्परस्, अयः, अयोडिन् च, विटमिन् ऎ, बि,सि च भवन्ति । शुण्ठीतैले Zingiberene, Zingiberol च भवति
 
==शुण्ठ्याः आयुर्वेदीय स्वभावः उपयोगश्च==
 
===जीर्णक्रियायाम्, अजीर्णनिवारणे===
बुभुक्षायाः उत्पादने, वर्धने च अर्द्रकम् अग्रस्थानं भजते । तक्रेण सह निर्मितम् आद्रकस्य ताक्रम्, उपसेचनं वा खादिवम् आहारं जिर्णीकरोति । तेन शरीरे आमसंग्रहः न भवति । उदरवेदनायां, अजीर्णतायां च आर्द्रकरससेवनं हितकरम् । प्रतिदिनं भोजनात् पूर्वं लघुना अर्द्रकखण्डेन किञ्चित् लवणं योजयित्वा खाद्यते चेत् भुक्तः आहारः सम्यक् जीर्णः भवति ।
 
===आर्द्रकस्य लेपनादि बाह्यप्रयोगः ===
आमवातः ग्रन्थिवेदना इत्यादिषु आर्द्रकस्य कलकः किञ्चित् उष्णीकृत्य लेपनीयः । शीतत्वम् अवसादत्वं च इदं दूरीकरोति । शुण्ठेः (शुष्कम् आर्दकम् )चूर्णं तिलतैलेन मिश्रीकृत्य अभ्यङ्गः क्रियते चेदपि पूर्वम् उक्ताः दोषाः निवारिताः भवन्ति । शुण्ठेः चूर्णं शरीरे लेपयन्ति चेत् शोथः अपगच्छति । शीरपिते, शिलीपदे (elephentiasis) च अर्द्रकस्य प्रयोगः उत्तमं परिणामं जनयति
 
===आद्रकरसस्य उपयोगः===
पीनसः कासः, श्वाससमस्या, हिक्कः इत्येतेषु अर्द्रकरसः प्रयोजनकारी भवति । अयं रसः कफहरः । कण्ठे सञ्चितं सर्वं कफं द्रवीकरोति ।
अयं रसः नराणाम् उत्तेजकः । समान्यज्वरेषु औषधस्य आर्द्रकरसेन सह सेवनस्य पद्धतिः अपि रूदौ अस्ति । विषमज्वरे शुण्ठेः चूर्णं हितकरम् ।
 
===सन्तानशक्तिवर्धकम्===
उर्द्रकम् उत्तमम् उत्तेजकम् इति कारणेन पुरुषस्य सन्तानशक्तिं वर्धयति । वाजीर्करणस्य औषधिषु आर्द्रकम् अपि अन्यतमम् । प्रसवोत्तर-दौर्बल्यनिवारणाय शुण्ठीपाकः सेवनीयः ।
 
===इतरे उपयोगाः ===
रोगस्य तीव्रतायाः कारणेन यूदा हस्तपादं शीतलं भवति तदा आर्दकरसेन लशुनरसं समप्रमाणेन मिश्रीकृत्य हस्तपादस्य लेपयित्वा सम्यक् मर्दनीयम् । तदा उष्णता उत्पद्यते, दौर्बल्यमपि न्यूनं भवति । नेग्गिलमुळ्ळु – कषायेन सह आर्दकरसं मिश्रीकृत्य प्रतिदिनं प्रातः पिबन्ति चेत् आमवातः कटिवेदना च अपगच्छति इति वृन्दमाधरग्रन्थे उक्तमस्ति
कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।
 
 
[[चित्रम्:Koeh-146-no text.jpg|thumb|150px|left|शुण्ठीसस्यं, पुष्पं, सस्यस्य अधोभागे शुण्ठी च]]
[[चित्रम्:Ginger tea-01.jpg|thumb|right|200px|शुण्ठीचायम्]]
 
==
:१. एषा शुण्ठी [[कफः|कफं]], [[वातः|वातं]], सोफं च परिहरति ।
:२. शुण्ठी बद्धोदरम्, आध्मानं, श्वासरोगं, श्लीपदरोगं चापि परिहरति ।
"https://sa.wikipedia.org/wiki/आर्द्रकम्" इत्यस्माद् प्रतिप्राप्तम्