"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
}}
 
[[चित्रम्:Rani of jhansi.jpg|thumb|राज्ञी लक्ष्मीबायी]]'''झान्सीराणीलक्ष्मीबाय्याः''' जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्यां अजायत। सा '''झान्सी की राणी''' इति नाम्ना अवर्धत। भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् अस्ति। सा आङ्लविरोधनीते: प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्रामम् आरब्धवती।
 
महाराज्ञी लक्ष्मीः
कः खलु भारतीयः वीरांगनायाः महादेव्याः लक्ष्म्याः लोकपावनं नामधेयम् न जानाति ? इयं निजैः पराक्रमैः विस्मितान् अकरोत् सकलान् जनान् । अस्याः जयनादाः कापुरुषानपि नूतनोत्साहेन समन्वितान् अकुर्वन् । इयमेव च मषा अकरोत् अबलेति पर्यायं नारीणम् ।
अस्याः वीरांगनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् । शैशवे अस्याः नाम् ‘मनुबाई’ इति अभूत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी ‘भागीरथी बाई’ साध्वई ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । तदा बाजीरावः कानपुर नगरस्य समीप्स्थिते बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्रविद्यां शस्त्रविद्यां च अलभत् । सा तत्र नैपुण्यम् अवाप्त्नोत् । अश्वारोशणेऽपु मनुवाई अतीव कुशला अभवत् ।
अनन्तरं झांसीजनपदस्य नरेशः गंगाधरः मनुदेव्याः पाणिग्रहणम् अकरोत् । ततः परं मनुबाई, ‘रानी लक्ष्मीबाई’ इति नाम्ना प्रसिद्धा अभवत् । उद्वाहाद् अनन्तरम् अपि सा अश्वारोहणं शस्त्राभ्यासञ्च नात्यजत् ।
Line ५१ ⟶ ५०:
== आशा न नष्टा ==
दत्ततास्वीकरणानन्तरं गङ्गाधररावः आङ्ग्लेयानुद्दिश्य किञ्चन पत्रं लिखितवान् । दत्ततास्वीकारविधानस्य सर्वान् विषयान् सः तस्मिन् पत्रे विवृतवान् । स्वीयदत्तपुत्रं स्वस्य राज्यस्य उत्तराधिकारिरूपेण अङ्गीकुर्वन्तु । तं राज्यस्य प्रतिनिधिरूपेण अङ्गीकुर्वन्तु इत्यपि प्रार्थितवान् असीत् स: । आङ्ग्लेयानां, झान्सीराज्यस्य मध्ये विद्यमानं स्नेहसम्बन्धमपि सः तस्मिन् पत्रे स्मारितवान् असीत्। मेजर् एलिस् हस्ते एतत् पत्रं दत्त्वा लार्ड डाल्हौसी कृते एतत् प्रापणीयमिति प्रार्थितवान् ।
 
पत्रप्रदानसमये राज्ञः नेत्रयोः अश्रूणि उद्गतानि । कण्ठः अवरुध्दः । यवनिकायाः पृष्ठत: राज्ञ्याः रोदनस्वरः अपि श्रूयते स्म ।
"मेजर् महोदय ! अस्माकं महाराज्ञी अपि जात्या महिला एव। तथापि तस्याम् अनेके विशिष्टाः गुणाः सन्ति । विश्वे अतिश्रेष्ठजनेषु एव तादृशगुणाः भवन्ति।" इति पत्रं प्रयच्छन् उक्तवान् गङ्गाधररावः । एतानि वचनानि वदतः तस्य नयनयोः अश्रूणि प्रसृतानि । "मेजर् महोदय! कृपया झान्सीराज्यं कदाचिदपि अनाथं मा करोतु" इति सः प्रार्थितवान्।
पङ्क्तिः ५७:
महाराजस्य उत्तराधिकारत्वविषये लक्ष्मीबायी अनेकवारं लार्ड् डल्हौसीकृते वार्तां प्रेषितवती । मासत्रयानन्तरमपि किमपि प्रत्युत्तरं नागतम् |
ईशवीये १८५४ तमे वर्षे मार्चमासे कस्मिंश्चित् दौर्भाग्यपूर्णे दिवसे डल्हौसीतः आदेशः आगतः।
'दत्तताद्वारा स्वस्य उत्तराधिकारिणः निर्णयाधिकारः गङ्गाधररावस्य नास्ति 'इति आङ्ग्लसर्वकारेण तस्य विज्ञप्तिः तिरस्कृता असीत् । झान्सीराज्यं आङ्ग्लसाम्राज्ये विलीनं करणीयमिति निश्चितञ्च।

राज्ञ्या दुर्गं त्यक्तवा पट्ट्णे अन्यस्मिन् भवने निवासः करणीयः इति आदिष्टम्। तस्यै प्रतिमासं पञ्चसहस्ररूप्यकाणां भरणं दीयते इत्यपि सर्वकारेण उद्घोषितम् ।
आरम्भे राज्ञी स्वकर्णयो: विश्वासं न कृतवती । कांश्चन क्षणान् निश्चेष्टं स्तब्धा स्थितवती। सपद्येव पुनः सामान्यस्थितिं प्राप्तवती। " नैव शक्यते । अहं मम झान्सीं न त्यजामि " इति दृढमुक्तवती ।
आङ्ग्लजनानां बलस्य, वञ्चनानां च प्रतिभटनं झान्सीसदृशस्य लघुराज्यस्य कष्टतमः विषयः इति ज्ञातुम् तस्याः अधिकसमयः नापेक्षितः आसीत् । तत्रापि पेश्वा आङ्ग्लेयानां दासत्वमङ्गीकृतवानेव। देहलीचक्रवर्ती अपि तेषां शरणे असीत् ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्