"सूर्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
सूर्यः/ रविः किञ्चन [[नक्षत्रम्|नक्षत्रं]] विद्यते । किन्तु [[ज्योतिश्शास्त्रम्|ज्योतिष्शास्त्रदृष्ट्या]] अयं कश्चन [[ग्रहः]] इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः ।अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव ।एव।
सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । [[भूमिः|भूमेः]] विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः [[भूमिः|भूमेः]] अपेक्षया ३,३३,००० गुणितम् अधिकम् ।अधिकम्। अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।विद्यते।
==रविमार्गः==
विश्वगोले '''रविमार्गः''' इत्येषः किञ्चन बृहद्-वृत्तम् । भूकेन्द्रसिद्धान्तानुगुणं [[भूमिः]] विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः [[भूमिः|भूमिं]] परितः भ्रमन्ति । रविः अपि [[भूमिः|भूमिं]] परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) '''रविमार्गः''' इति कथ्यते । अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । भूमेः अक्षस्य नमनमेव अस्य कारणम् । भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः '''रविमार्गस्य वक्रता''' इति निर्दिश्यते । इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते ।
==पश्य==
*[[नवग्रह|नवग्रह सूची]]
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्