"चन्द्रः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५६:
[[भूमिः|भूमिं]] विहाय मानवैः यत्र पदं न्यस्तं तादृशः एकैकः आकाशकायः नाम चन्द्रः । [[रष्या]]देशस्य लूनयोजनायाः गगननौका तावत् चन्द्रग्रहं प्रति ऐदम्प्राथम्येन प्रेषिता मानवर्राहतगगननौका। लूना-१ भूगुरुत्वं अतीत्य चन्द्रस्य समीपं गतवत् प्रथमं मानवेन निर्मितं वस्तु । लुना-२ चन्द्रस्य बाह्यस्तरं प्रति प्रेषितं प्रथमं मानवनिर्मितं वस्तु । सामान्यतः अस्माकं दर्शनेन विमुखस्य चन्द्रस्य अपरमुखम् लूना-३-द्वारा चित्रीकृतम् । एतत्सर्वम् [[१९५९]] तमे वर्षे जातम् । चन्द्रस्य उपरि पदं न्यस्तवत् प्रथमं मानवर्राहतम् नौकायानं लूना ९। एवं चन्द्रस्य परिभ्रमणं कृतम् प्रप्रथमनौकायानम् लूना -२० । [[१९६६]]तमे वर्षे [[संयुक्तानि राज्यानि|अमेरिका-संस्थानस्य]] अपोलोयोजनायाः अङ्गतया चन्द्रस्य उपरि प्रथमं मानवसहितं नौकायानं [[१९६८]] तमे वर्षे चन्द्ं परितः भ्रमणम् अकरोत् । अनन्तरं [[१९६९]] तमे वर्षे अपोलो- २२ मानवस्य साक्षात् चन्द्रस्य उपरि पादार्पणम् अकारयत् । एषः मनुकुलस्य इतिहासे स्वर्णाक्षरैः लेखितुम् योग्यः कार्यक्रमः आसीत् ।
एवम् [[१९६८]] तमे आरब्धा अपोलोयोजना मानवस्य चन्द्रस्योपरि पादार्पणेन [[१९६९]] तमे वर्षे परिसमाप्तिं गता । तथापि भविष्ये चन्द्रस्य दिशि मानवसहित /रहितगगननौकायानानां प्रेषणे अनेकेदेशाः प्रयतन्ते स्म। [[मङ्गलः|मङ्गलग्रहस्य]] यात्रार्थं चन्द्रस्योपरि एकं शाश्वतं गगननौकास्थानं स्थापयितुं डिसेम्बरमासस्य ४ दिनाङ्के २००६ वर्षे नासासंस्थया सूचना दत्ता । निर्माणकार्ये पञ्चवर्षीणि अपेक्षितानि भवेयुः इति निरीक्षा वर्तते । तदनन्तरं २०२० तमे वर्षे प्रथम-अन्तरिक्षयानानाम् आरम्भः भवेत् इति निरीक्ष्यते ।
 
==चन्द्रस्य मुखद्वयम्==
चन्द्रः समकालिकपरिभ्रमणं कुर्वन् भवति इत्यतः तस्य एकमेव मुखं सर्वदा अस्माभिः दृश्यते । बहुपूर्वं [[भूमिः|भूमेः]] उपरि जायमानैः सागराणाम् उत्कर्षापकर्षैः चन्द्रस्य अक्षीयपरिभ्रमणं मन्दं जातं सत् तदधीनम् अभवत् । तथापि चन्द्रस्य कक्षाकेन्द्रय्युतिकारणात् जातैः लघु परिवर्तनैः वयं चन्द्रस्य ५९% बाह्यस्तरं दृष्टुं शक्नुमः । एतत् मुखम् ‘पुरोमुखम्’ इति तस्य विरुद्धदिशायां वर्तमानः भागः “पृष्टमुखम्’ इति कथयन्ति । पूर्णिमायां चन्द्रस्य पुरोमुखं दृष्तं चेत् अपरमुखे अमावास्या भवति ।
"https://sa.wikipedia.org/wiki/चन्द्रः" इत्यस्माद् प्रतिप्राप्तम्