"चन्द्रः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८५:
[[सूर्यः]] [[भूमिः]] एवं चन्द्रः यदा एकस्याम् एव सरलरेखायां वर्तन्ते तदा ग्रहणं सम्भवति । अमावास्यायां चन्द्रः [[सूर्यः|सूर्यस्य]] एवं [[भूमिः|भूमेः]] मध्ये आगच्छति तदा सूर्यग्रहणं सम्भवति। पूर्णिमायाः दिने यदा भूमिः सूर्यचन्द्रयोः मध्ये आगच्छति तदा चन्द्रग्रहणं सम्भवति । सर्वासु पूर्णिमासु अमावास्यासु ग्रहणानि न सम्भवन्ति । पूर्णग्रहणम् एवं कङ्कग्रहणमिति द्विविधे ग्रहणे पश्यामः । पूर्णग्रहणे चन्द्रः सूर्यं सम्पूर्णतया अच्छादयति । इतः परं ६० कोटिवर्षानन्तरं (सूर्यस्य कोनव्यासः न व्यक्रियते येत् ) चन्द्रः [[सूर्यः|सूर्यं]] सम्पूर्णततया आच्छादयितुं न शक्नोति तदा केवलं कङ्कणग्रहणानि एव सम्भवन्ति । कोट्यन्तरवर्षेभ्यः पूर्वं केवलं पूर्णग्रहणानि एव आसन्।
==अन्वेषणम्==
[[चित्रम्:Evolution of the Moon.ogv|thumb|300px]]
दूरदर्शकस्य आविष्कारास्यानन्तरं चन्द्रस्य वीक्षणे प्रगतिः अभूत्। [[ गेलिलियो]] महाशयः स्वस्य ‘गेलिलै’ इति नूतनम् उपकरणं सम्यक् उपयुज्य,चन्द्रस्य बाह्य-आवरणे स्थितान् पर्वतान् तथा कन्दरान् अवलोकयामास । शीतलसमरस्य प्रचोदनात् रशिया-अमेरिकासंस्थानयोः मध्ये बाह्याकाशविषये आसक्तिः अधिका अभवत् । तथा चन्द्रस्य विषयेऽपि आसक्तिः अधिका अभवत् । तयोः रशियादेशस्य (उपग्रहः) चन्द्रयोजनानुसारं लूना-१६ , २०,२४ एवम् अपोलो-११,१२,१४,१५,१६ १७ एताः गगननौकाः चन्द्रस्योपरि विद्यमानं शिलाखण्डं मृत्तिकां च अत्र आनीतवन्तः ।
[[अमेरिका]]देशस्य अपोलो-११ यात्रायाः नायकः नील-आर्मस्ट्रांग् ’ महोदयः १९६९ तमवर्षस्य जुलैमासस्य ११ दिनाङ्के १२.५६ U.T.C समये चन्द्रस्योपरि आदौ स्वपादं न्यस्तवान् । चन्द्रस्योपरि (२००७ तमे वर्षे) पादं न्यस्तवत्सु अन्तिममानवः युजीन सेरनात् । अपोलोयात्रासु चन्द्रस्योपरि अनेकानि वैज्ञानिक- उपकरणानि उपस्यापितानि। तेषु उष्णप्रवाहशोधकाः चन्द्रकम्पनमापकाः, कान्तत्वमापकाः प्रमुखाः। २०२० तमे वर्षे अमेरिकादेशः पुनः मानवसहितचन्द्रयोजनां प्राकटयत् । जपानदेशः ‘लूनार्- ए’ एवं ‘सेलीन्’ इति योजनादयस्य सज्जतायाम् अस्ति । [[भारतम्|भारतदेशोऽपि]] [[२००८]] तमे वर्षे ‘चन्द्रयानम्- २’ इति योजनाम् आरभ्य अनेकेषां मानवरहितचन्द्रयानस्य योजनां प्रयोजयन् अस्ति । ‘चन्द्रयानम्- २’ एकं यान्त्रिकं चन्द्रपर्यटकम् आप्नोति । [[रष्या]] देशः अपि स्व ‘लूना- ग्लोब्’ कार्यक्रमं पुनः उपस्थापयति इति घोषणां कृतवान् अस्ति ।
भूरासायनिकनक्षा द्वारा चन्द्रस्य बाह्यकवचम्, अल्युमिनियुं, सिलिकेट्, पोट्याषियं, सोडियं, क्याल्शियम् इत्यादिनां लवणैः संपन्नम् अस्ति । चन्द्रस्य बाह्यकवचं मुख्यतः आम्लजनकं, सिलिकान्, मेग्नेषियं, अयः क्याल्शियं तथा पित्तलेन समृद्धम् अस्ति। अल्पप्रमाणेन टैटोनियं, युरेनियं, योरियम्, पोटाषियं, एवं जलजनकैः युक्तम् अस्ति ।
 
==इतिहासः ==
पाश्यात्यवलये चन्द्रस्य विषये वैज्ञानिकविवरणं दत्तवत्सु प्रथमः ग्रीक् तत्त्वज्ञानी ‘अनक्सागोरस्स्’ । एषः सूर्यचन्द्रौ द्वौ अश्मानौ इति, चन्द्रः [[सूर्यः|सूर्यस्य]] प्रकाशं प्रतिफलति इति तर्कितवान् आसीत् । तस्य नास्तिकदृष्टिकोणत्वात् तं बन्धयित्वा अनन्तरं देशभ्रष्टं कृतवन्तः । मध्ययुगे दूरदर्शकस्य आविष्कारात् पूर्वं चन्द्र कश्चन गोलकः इति परिगणयन्ति स्म । विविधसंस्कृतयः चन्द्रस्योपरि विद्यमानं विन्यासं दृष्ट्वा चन्द्रमानवः, शशः , महिषः इत्यादि- आकाराः सन्ति इति चिन्तितवन्तः आसन् ।
"https://sa.wikipedia.org/wiki/चन्द्रः" इत्यस्माद् प्रतिप्राप्तम्