"अग्निपुराणम्" इत्यस्य संस्करणे भेदः
Content deleted Content added
(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q2353389 (translate me) |
No edit summary |
||
पङ्क्तिः १:
अग्निपुराणम् (Agnipurana) अष्टादशपुराणां अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्निवसिष्ठयोः ।
यदि केवलमेतावदभविष्यत्, पुराणमिदं भारतीयानां श्रध्दा-विश्वासभावनानां चिन्तनपरंपरायाश्च प्राचीनं लिखितसाक्ष्यं समभविष्यत् । विश्वकोशत्वरुपेणा धर्मेण महत्त्वमेतदीयम् । साहित्यशास्त्रम्, आयुर्वेदः, अश्वायुर्वेदः, गजायुर्वेदः, वृक्षायुर्वेदः, वास्तुविद्या, राजनीतिः, शस्त्रविद्या एतदादीनि वस्तूनि पर्याप्तमात्रयात्र कलृप्तस्थलावकाशानि ।
|