"पुराणम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 41 interwiki links, now provided by Wikidata on d:q188602 (translate me)
No edit summary
पङ्क्तिः ११:
पुराणानि भौगोलिकसामग्रीमपि प्रस्तुवन्ति । काशीखण्डे काशीपुर्यास्तादृशं विस्तृतं वर्णनं विद्यते येन तस्या मानचित्रमिव पुरत उपतिष्ठते । अन्येष्वपि पुराणेषु तेषां तेषां तीर्थानां तादृशं स्पष्टं वर्णनमुपलभ्यते, येन तत्परिचये सौकर्यमाधीयते । पुराणेषु अतिशयोक्तिपूर्णा शैली समादृता येन लोकास्तानि अविश्वसनीयानि काल्पनिकानि च प्रतियन्ति स्म । तत्र बोध्दव्यमिदं यत् त्रिधा वर्णनं क्रियते –वस्तुतत्त्वकथारुपेण, रुपकद्वारा, अतिशयोक्तिद्वारा च । वस्तुतत्त्वकथा वैज्ञानिकानाम, ते हि वस्तु यथावद् वर्णयन्ति, न किमपि रञ्जनं तत्राचरन्ति । रुपकद्वारा वस्तुकथनप्रणाली वेदेषु व्यवह्रियते, तत्र हि उषः सुन्दरी कृता, वृत्रश्च राजाकृतः । अतिशयोक्तिप्रणाली पुराणेष्वादृता । अस्यां प्रणाल्यां वर्णिता अर्था यथामति विविच्य ग्रहीतव्या भवन्ति । पुराणानां तुलनात्मकमध्ययनं तदन्तस्तले प्रवेशनं च यदि क्रियेत तदा तत्रत्य इतिहासभागः सामाजिकवर्णनारहस्यं च स्पष्टमवभासेत इति विदुषां विचारः ।
== [[पुराणलक्षणम् ]]==
 
पुराणं पुरातनमाख्यानमुच्यते । संस्कृते पुराणशब्दश्चिरन्तनपर्यायः । पुराणेषु भूता वर्त्तमाना भाविनश्चार्या वर्ण्यन्ते । इतिहासे तु भूता एवार्था वर्ण्यन्त इति पुराणेतिहासयोरन्तरम् । प्राचीनास्तु पुराणमपीतिहासशब्देनाभिदधते । पुराणेषु पुराणलक्षणमित्यमुक्तम् –
:'''सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।'''
:'''वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥'''
 
सर्गः सृष्टि, प्रतिसर्गः सृष्टेर्लयः पुनश्च सृष्टिः, वंशः सृष्ट्यादौ वंशावली, मन्वन्तराणि के के मनवः कदा कदा अजायन्तेति वर्णनानि, वंशानुचरितं सीर्यचन्द्रवंशयोर्विशिष्य वर्णनम्, इदं वस्तुतञ्चकं पुराणेष्वपेक्ष्यते ।
# सर्गः (जगतः उगमः)
# प्रतिसर्गः (अवनतिः पुन्स्सृष्टिः)
# वंशः (ऋषिदेवतादीनां जीवनम्)
# मन्वन्तरम् (मानवजातेः उगमः, मनूनां राज्यभारः)
# वंशानुचरितम् (सूर्यचन्द्रवंशीयराजानां चरित्रम्)
 
वस्तुतस्तु नैतान्येव वस्तूनि पुराणेषु वर्ण्यन्ते । इदं तु न्यूनतमं वर्णनीयम्, पुराणेष्वितोऽधिकान्यपि तानि तानि वस्तूनि वर्ण्यन्ते । उदाहरणार्थमग्निराणमेव गृह्यताम् । तत्र हि सर्वाण्यपि ज्ञातव्यवस्तूनि वर्णितानि, येन तत् भारतीयज्ञानकोषः’ इत्यभिधीयते ।
कस्यापि मानवसमाजस्य इतिहासस्तावन्न पूर्णो मन्यत्, याक्तस्य सृष्टेः प्रारम्भकालत इतिहासोन प्रस्तूयते पाश्चात्त्यशिक्षाप्रभाविता विद्वांसो नैतदनुमोदयन्ति स्म, अत एव ते पुराणानि सत्यानि न स्वीकुर्वन्ति स्म, परं सम्प्रति दृष्टिकोणपरिवर्तनं जातम् । एच्. जी. वेल्स महोदयः '''औट् लैन् आफ़् दि हिस्टरी'' नामके स्वग्रन्थे पौराणिकी प्रणालीमनुव्सृतवान् । अनया सुसंस्कृतया दृष्ट्या भारतीयमितिहासं जिज्ञासमानानां कृते पुराणानि निधय इव ।
 
== पुराणानां रचनाकालः ==
"https://sa.wikipedia.org/wiki/पुराणम्" इत्यस्माद् प्रतिप्राप्तम्