"चन्द्रः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
</poem>
 
'''चन्द्रः''' (Moon) [[भूमिः|भूमेः]] एकमात्र-उपग्रहः अस्ति । [[सूर्यः|सूर्यस्य]] अनन्तरं प्रमुखं स्थानं वहति चन्द्रः भूग्रहे विद्यमानानाम् अस्माकं दृष्ट्या । [[भूमिः|भूमिः]] स्वं परितः भ्रमति इत्यतः चन्द्रः अपि पूर्वदिक्तः पश्चिमदिशि सञ्चरति इति भासते । अन्ये ग्रहाः इव चन्द्रेण अपि स्थिरनक्षत्रमार्गे परिपूर्णं भ्रमणं कर्तुं २७ दिनानि ७ घण्टाः ४३ निमेषाः स्वीक्रियन्ते । तन्नाम २७.३२१७ दिनानि स्वीकरोति । अयम् एव '''नक्षत्रमासः''' इति उच्यते । [[भूमिः|भूमौ]] स्थित्वा ये अवलोकयन्ति तेषां दृष्ट्या चन्द्रः एकस्मात् [[नक्षत्रम्|नक्षत्रात्]] प्रस्थाय वृत्तं समाप्य तत्रैव प्रत्यागन्तुं यावन्तं कालं स्वीकरोति सः कालः इति वक्तुं शक्यते । एषः कालः २७.३२१७ सौरदिनसमानः भवति । <br/>
 
सामान्यतः '''चान्द्रमानः''' नाम अमावास्यतः अमावास्यपर्यन्तं विद्यमानः २९.५३०५८८७ सौरदिनानि इत्यर्थः । अयं कालः नक्षत्रमासात् अधिका वर्तते । चन्द्रस्य परिभ्रमणावसरे [[सूर्यः]] अपि सञ्चरति इत्यतः प्रथमामावास्यातः द्वितीयामावास्याप्राप्तिः विलम्बायते । <br />
"https://sa.wikipedia.org/wiki/चन्द्रः" इत्यस्माद् प्रतिप्राप्तम्