"शृङ्गेरी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
[[पुरी]] [[बदरी]] [[द्वारका]] [[उज्जयिनी]]पीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । अत्र विद्यमानस्य [[श्रीचक्रम्|श्रीचक्रस्य]] शारदाम्बामूर्तेः च प्रतिष्ठापनं च शङ्कराचार्यैः एव कृतमस्ति । चन्दनदारुशिल्पमयी मूर्तिः एषा [[जम्मूकाश्मीरराज्यम्|काश्मीरतः]] आनीता इति श्रूयते । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिश्रणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादशस्तम्भाः [[राशिविज्ञानम्|द्वादशराशीन्]] सूचयन्ति । प्रति[[मासाः|मासं]] [[सूर्यः|सूर्यस्य]] प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । [[नवरात्रम्|नवरात्रिपर्व]] अत्र विशेषेण प्रचलति । विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा अत्र प्रचलन्ति । [[तुङ्गा]]नदीतीरे श्रृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्डपाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं वेदघोषः शास्त्राध्ययनं च अविरतं प्रचलति ।
 
[[Image:Sringeri.jpg|thumb|left|श्रीविद्याशङ्करदेवालयः]]
==मार्गः==
:[[बेङ्गळूरु]]तः ३२६ कि.मी.
"https://sa.wikipedia.org/wiki/शृङ्गेरी" इत्यस्माद् प्रतिप्राप्तम्