"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎स्वामिनः सॊमदॆवस्य दर्शनम्: एत: सम्पाद्यते ==स्वामिनः सोमदेवस्य दर्शनम्== इति
(लघु) →‎स्वामिनः सोमदेवस्य दर्शनम्: अन्तर्विकी आर्यसमाजः
पङ्क्तिः २८:
 
==स्वामिनः सोमदेवस्य दर्शनम्==
रामप्रसादः यदा सर्वकारीयविद्यालये नवम् कक्षायाः छात्रः आसीत् तदा दैवयोगेन स्वामिनः सोमदेवस्य दर्शनम् अभवत्। स्वामी शाहजहाँपुरे [[आर्यसमाज:आर्यसमाजः]] भवने आगतवान्। मुन्शी इन्द्रजीतः रामप्रसादं स्वामिनः सेवायां नियुक्तवान्। इतः एव अस्य बालकस्य जीवनस्य दिशायाः परिवर्तनस्य आरम्भः अभवत्। एकत्र [[दयानन्द सरस्वती]] कृत सत्यार्थप्रकाशस्य गम्भीराध्ययनम् अपरत्र स्वामिसोमदेवेन सह [[राजनीति:]] विषये मुक्ता चर्चा। अयम् अवसरः बालस्य रामप्रसादस्य मनसि देशप्रेम अङ्कुरितवान्। ख्रिस्ताब्द १९१६ तमे वर्षे सम्भूते काङ्ग्रेस्पक्षस्य अधिवेशने स्वागताध्यक्षः पं.जगतनारायण मुल्ला इत्यस्य आदेशस्य प्रचारं कुर्वाणः [[बालगङ्गाधर तिलकः|तिलकस्य]] [[लखनौ]]पत्तने शोभायात्राम् अपश्यत्। तस्य मनः तिलकमहोदयस्य दृढताया आकृष्टम्। अधिवेशनस्य व्याजेन केशवचक्रवर्तिनः, सोमदेवशर्मणः, मुकुन्दीलालस्य तिलकमहोदयस्य परिचयः अभवत्। तदन्तरं सोमदेवशर्मा केनचित् सिद्धगोपालशुक्लेन सह कानपुरस्य साहित्यपुस्तकालयतः पुस्तकस्य प्रकाशनम् अकरोत्। अस्य पुस्तकस्य शीर्षकं अमेरिकाया: स्वतन्त्रतायाः इतिहासः इति। रामप्रसादः मातुः हस्तात् द्विवारे द्विशत-द्विशत रुप्यकाणि स्वीकृत्य प्रकाशितवान्। अस्य उल्लेखम् एषः स्वस्य आत्मचरितम् इतिपुस्तके कृतवान्। मुद्रणस्य अनन्तरं ब्रिटिश अधिकारिभिः अवष्टब्धम्। किन्तु काकोरी-काण्डस्य अभियोगे साक्ष्यरूपेण अयम् एव ग्रन्थः उपयुक्तः। इदानीम् अयं ग्रन्थः पुनः सम्पादयित्वा ''सरफ़रोशी की तमन्ना'' इतिनाम्ने ग्रन्थमालाया: [[हिन्दी भाषा|हिन्दीभाषायां]] पुनः प्रकाशितः।
 
== मैनपुरी षड्यन्त्रम् ==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्