"महात्मा गान्धी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
|footnotes =
}}
'''महात्मा गान्धिः''' इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (क्रि.श.१८६९-१९४८) [[गुजरातराज्यम्|गुजरातराज्यस्य]] [[पोरबन्दर]]नामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: [[रवीन्द्रनाथ ठाकुर:ठाकुरः|रवीन्द्रनाथ ठाकुरः]] तं ''महात्मा'' इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं ''महात्मा गान्धिः'' इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत् । स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
 
== जन्म==
 
गान्धिवंशीया बनियाख्यवैश्यवर्णा: । तेऽमी पुरास्तोकानापणान्प्रतिष्ठाप्य वाणिज्यं कुर्वते स्मेति प्रतिभाति । किन्त्वस्मत्तातमारभ्यते त्रिपौरुषपर्यन्तं काठियावाडदेशस्य कतिपयसंस्थानेषु प्रधानसचिवा बभूवु: । ओतागान्ध्यपराख्येनोत्तमचन्दगान्धिनाखण्डितवादिना भाव्यम् । तस्यास्य पोरबन्दरसंस्थाने प्रधानपदमारूढस्य क्वचित्कूटनीतिवशात्तत्संस्थानं परित्यज्य जूनागढसंस्थान आश्रय: समन्वेषणीयोऽभूत् । तदा तत्रत्यनवाबप्रभोरयं सव्यहस्तेन सभाजनं चकार । तत्प्रेक्षकेण केनचित्पुरुषेण तावदविनीतवर्तनस्य हेतुं पृष्ट: स प्रत्याह इत: पूर्वमेव मम दक्षिणो हस्त: पोरबन्दरसंस्थानस्य वशवर्ती भवतीति ॥
"https://sa.wikipedia.org/wiki/महात्मा_गान्धी" इत्यस्माद् प्रतिप्राप्तम्