"सिद्धगङ्गा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Sree Shivakumara Swamiji Dr Abdul Kalam.png|thumb|अधुनातनाः श्री सिद्धगङ्गास्वामिनः कलां महोदयेन सह]]
सिद्धगङ्गा (Siddaganga) [[कर्णाटक]]राज्यस्य [[तुमकूरु]]मण्डले विद्यमानं किञ्चन क्षेत्रम् । प्रसिद्धः सिद्धगङ्गामठः शिवशरणानां पुण्यक्षेत्रं विद्यते । आधुनिककाले सिद्धगङ्गायाः नाम विश्र्वाद्यन्तं प्रसृतम् अस्ति । अत्र चलद्देवः इति कथ्यमानः कर्मयोगी [[शिवकुमारस्वामी]] वसति । शिवकुमारस्वामिनः कारणतः सिद्धगङ्गा उल्लेखार्हा जाता । सिद्धगङ्गां परितः प्रेक्षणीयानि स्थानानि बहूनि सन्ति ।
'''रामदेवरबेट्ट, सिद्धगङ्गा, सिद्धरबेट्ट, देवरायपट्टस्य शिवालयः, गूळूरू, बेळगुम्ब, गुब्बि एडेयूरु, कुप्पूद्र''' इत्यादीनि स्थलानि प्रेक्षणीयानि सन्ति । ऐतिहासिकदृष्ट्या पौराणिकदृष्ट्या एतानि प्रसिद्धानि । एतादृशैः पवित्रस्थानैः परिवृतमस्ति सिद्धगङगाक्षेत्रम् । एतदेकं पुण्यक्षेत्रम् । एतत् [[तुमकूरु]]मण्डले अस्ति । [[बेङ्गळूरु]]तः ४० कि.मी दूरे अस्ति । एतत् क्षेत्रं प्रति सर्वमतीयाः अपि भक्त्या आगच्छन्ति । प्रायशः सर्वैरपि सिद्धगङ्गाक्षेत्रं दृष्टम् । एका गाथा [[कर्णाटक|कर्णाटके]] प्रचलति सिद्धगङ्गां गच्छति चेत् गुहे (एकविधाहारविशेषः) ऋणं न भवति । अर्थात् यथेष्टं भोजनप्रसादः लभ्यते इति । एतदेकं मुक्तिदायकं स्थानम् [[गोसलसिद्धेश्वरः]] [[तोण्टदलिङ्गेश्र्वरः]] इत्यादयः विरक्ताः अत्र शान्तिं प्रतिष्ठापितवन्तः । सहस्राधिकाः छात्राः अत्र पठन्ति । नित्यदासोहकारणतः एतत् क्षेत्रं समाजस्य विशिष्टोपकारकम् अस्ति ।
"https://sa.wikipedia.org/wiki/सिद्धगङ्गा" इत्यस्माद् प्रतिप्राप्तम्