"ताजमहल" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 116 interwiki links, now provided by Wikidata on d:q9141 (translate me)
No edit summary
पङ्क्तिः २९:
ताजभवनम् (अमृतशिलाकाव्यम्)
आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना [[शाहजहानः|शाहजहानेन]] प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । [[फ्रान्सदेशः|फ्रान्सदेशस्य]] ऐफेल् गोपुरमिव [[आस्ट्रेलिया]] देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । [[यमुना]]नद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य दैर्घ्यंऔन्नत्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।
==ताजमहल् स्वरूपम्==
परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति।
"https://sa.wikipedia.org/wiki/ताजमहल" इत्यस्माद् प्रतिप्राप्तम्