"कूडली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
शङ्करतत्त्वानाम् अध्ययनाय प्राचीनभारतीयपरम्परानुगुणं विद्यते कूडलीमठः । अस्य प्राचीनः इतिहासः एवमस्ति - १५ / १६ शतके कदाचित् शृङ्गगिर्याः ज्येष्ठः मठाधिपतिः तीर्थयात्रां प्रति गतः आसीत् । दीर्घकालं यावत् तेन न प्रत्यागतम् इत्यतः कनीयान् स्वामी पीठारोहणम् अकरोत् । किन्तु ज्येष्ठः मठाधिपतिः ततः केषाञ्चन दिनानाम् अनन्तरं शृङ्गगिरिं प्रत्यागतवान् । किन्तु स्वस्य शिष्यः एव यत्र पीठारोहणं कृतवान् आसीत् तत्र प्रवेशः अनुचितः इत्यतः सः शृङ्गेरीतः आगत्य तुङ्गभद्रयोः सङ्गमस्थाने कूडलीक्षेत्रे स्वीयं मठं संस्थापितवान् । अयं कूडलीमठः इति प्रसिद्धः जातः । १९०० तमे वर्षे नूतनः यतिवरः पीठाधिपतिः जातः । सः पूर्वं मैसूरुमहाराजस्य कृष्णराज ओडेयरस्य गुरुः आसीत् इत्यतः मठस्य भूयान् प्रगतिः जाता । तदनन्तरम् आगताः सर्वेपि यतिवराः स्वीयया प्रतिभया परिश्रमेण च मठस्य उन्नतिम् असाधयन् ।
 
===आर्य अक्षोभ्यतीर्थमठः===
अयं मठः १३ / १४ शतके अक्षोभ्यतीर्थेन (मध्वाचार्यस्य प्रमुखः शिष्यः) संस्थापितम् । अयं मठः संस्कृतस्य मध्वतत्त्वस्य शिक्षणे प्रसिद्धः वर्तते । समृद्धः सम्प्रदायः विद्यते अत्र । एतावता त्रयः पीठाधिपतयः आसन् । श्री रघुविजयतीर्थः इदानीन्तनः पीठाधिपतिः ।
 
[[वर्गः:शिवमोग्गमण्डलस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/कूडली" इत्यस्माद् प्रतिप्राप्तम्