"गान्धीनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
==जनसङ्ख्या==
२०११ जनगणनानुगुणं गान्धिनगरमण्डलस्य जनसङ्ख्या १३,८७,४७८ अस्ति । अत्र ७,२२,४५९ पुरुषाः ६,६५,०१९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६६० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६६० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.१५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ८५.७८% अस्ति ।
 
==उपमण्डलानि==
अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- १ [[गान्धिनगरम्]] २ दहेगाम ३ कलोल ४ माणसा
 
==कृषिः वाणिज्यं च==
तण्डुलः, गोधूमः, एरण्डं, सर्षपः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । बृहज्जम्बीरं, 'ग्वावा', दाडिमफलं, पपितफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । आलुकं, वृन्ताकं, कपिशाकं ('क्याबिज्'), भिण्डकः, 'टमेटो', 'कोलीफ्लवर्' च अस्मिन् मण्डले उत्पाद्यमानानि शाकानि सन्ति । वस्त्रोत्पादनम्, 'इलेक्ट्रिकल् एण्ड् इलेक्ट्रोनिक्स्', आहारसंस्करणं, 'इन्फर्मेषन् टेक्नोलोजी' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
 
==वीक्षणीयस्थलानि==
[[अक्षरधाम]] तु अस्य मण्डलस्य प्रमुखम् आकर्षकं वीक्षणीयस्थलम् अस्ति । अस्मिन्नेव मण्डले विद्यमानम् 'अडालज-वाव' इत्येतत् विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदमपि प्रसिद्धं वीक्षणीयस्थलम् अस्ति । 'इन्द्रोडा डायनोसार् एण्ड् फोसिल् उद्यानम्' अपरं वीक्षणीयस्थलम् अस्ति । इदम् उद्यानम् 'जियोलोजिकल् सर्वे आफ् इण्डिया' द्वारा संस्थापितम् अस्ति । समग्रे विश्वे विद्यमानेषु डायनोसार्-उद्यानेषु अस्य उद्यानस्य द्वितीयं स्थानम् अस्ति । समग्रे [[भारतम्|भारते]] इदम् उद्यानम् एकमात्रडायनोसार्-सङ्ग्रहालयः अस्ति ।
 
 
"https://sa.wikipedia.org/wiki/गान्धीनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्