"भूगोलम्" इत्यस्य संस्करणे भेदः

भूमेः उद्भवस्य अनन्तरं कति वर्षाणि अतीतानि ? इ... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ११:
एवं विश्वाद्यन्तं विद्यमानाः सर्वाः सञ्चितशिलाः समग्रतया क्रोढीकृत्य भूमेः इतिहासस्य पुनारचने विज्ञानिनः यशस्विनः अभवन् । एतेषां क्रमाणां कारणतः एव भूमेः उद्भवात् आरभ्य अद्यपर्यनतं घटितानां सर्वासां घटनानां कालक्रमेण योजनं शक्यम् अभवत् । एवं क्रमेण योजिताः घटनाः कोष्टकरूपेण रचिताः । तत् कोष्टकं '''भूवैज्ञानिकस्तम्भः''' (Geologic Column) इति उच्यते । भूमौ लब्धाः प्राचीनाः शिलास्तराः कोष्टकस्य अधोभागे इदमिदानीं रूपिताः शिलास्तराः कोष्टकस्य उपरितने भागे च योजिताः सन्ति । तादृशीषु शिलासु प्राप्ताः अवशेषाः अपि जीविनां विकसनक्रियायाः विविधान् स्तरान् प्रदर्शयन्ति । <br />
एवं भूमेः इतिहासस्य विविधेषु स्तरेषु विकसितानां जीविनाम् (प्राणि-पक्षि-वृक्ष-सस्यानि) आधारेण अयं भूवैज्ञनिकस्तम्भः विभिन्नेषु भागेषु विभक्तः अस्ति । प्रधानतया सः स्तम्भः निर्जीवकल्पं, सजीवकल्पं च इति द्विधा विभक्तः । कोष्टकस्य अधोभागे निर्जीवकल्पम् अस्ति । यतः भूमेः उद्भवस्य अनन्तरं बहुकालपर्यन्तं जीविनां जन्म भूमौ न जातः एव । तत् निर्जीवकल्पं पुनः आर्षेयं तथा आदिमं (बीजभूतम्) च इति द्विधा विभक्तम् अस्ति । अस्मिन् द्वितीये विभागे अपि यद्यपि जीविनाम् उद्भवः स्पष्टतया न जातः तथापि जीविनाम् उद्भवार्थम् अपेक्षिताः कतिपय सूक्ष्माणुजीविनः आसन् । तन्नाम भूमेः उद्भवस्य अनन्तरं कतिपय सहस्रं वर्षाणि यावत् भूमौ जीविनां जीवनार्थम् अपेक्षिता परिस्थितिः न आसीत् । क्रमेण भूमिः शीतला जायमाना जीविनां जीवनार्थम् अनुकूलकरी जाता । वायुः, जलम् इत्यादयः अंशाः अपि सिद्धाः अभवन् । तेन भूमौ जीविनां विकसनम् आरब्धम् ।
 
[[वर्गः:भूमिशास्त्रम्]]
"https://sa.wikipedia.org/wiki/भूगोलम्" इत्यस्माद् प्रतिप्राप्तम्