"मलयाळम्" इत्यस्य संस्करणे भेदः

redirecting
No edit summary
पङ्क्तिः १:
[[File:Malayalamname.png|thumb|right|200px|मलयाळम्-भाषायाम् लिखित: मलयाळम्]]
#REDIRECT[[मलयाळम्‌]]
 
'''मलयाळम्‌''' भारतीयभाषासु अन्यतमा या च केरलराज्ये अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरलराज्यस्य, लक्षद्वीपस्य, पुदुचेर्याः च राज्यभाषा विद्यते । इयं [[द्रविडभाषा]]परिवारस्‍य काचित् भाषा। [[केरळ]]देशे जना: मलयाळभाषया वदन्ति । ४,००,००,००० जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिलुनाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरुमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते।
 
मलयालं ६ शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः ८०% शब्दाः संस्कृतशब्दाः एव । मलयालभाषायाः उगमात् पूर्वं प्राचीनतमिलुभाषा उपयुज्यते स्म साहित्ये, तमिलकम्प्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम 'सिलप्पटिकरम्' । सङ्गमसाहित्ये अयं ग्रन्थः उत्कृष्टः मन्यते । अयं कोचिनस्थेन चेराराजकुमारेण इलाङ्गो अडिगलेन लिखितम् । सङ्गमसाहित्यस्य बहवः शब्दाः आधुनिकमलयालभाषया संरक्षिताः सन्ति । मलयाललेखनाय उपयुक्ता प्राचीनतमा लिपिः नाम वट्टेझुट्टुलिपिः। अग्रे ततः उत्पन्ना कोलेझुट्टुलिपिः उपयुज्यमाना अस्ति । मलयालभाषा संस्कृतस्य शब्दसम्पत्तिं व्याकरणनियमाञ्च अङ्ग्यकरोत् तदा आर्य-एझुट्टा नामिका ग्रन्थलिपिः आधृता । इममेव आधुनिकमलयाललिपित्वेन परिष्कृतः । बहवः मध्यकालीनाः साहित्यग्रन्थाः मनिप्रवाललिप्या लिखिताः सन्ति या च संस्कृत-प्राचीनमलयाललिप्योः संयुक्तरूपा वर्तते । तमिलुपरम्परातः भिन्नः प्राचीनमलयालसाहित्यकृतिः ९-११ शतकयोः उपलभ्यते ।
मलयालभाषा संस्कृत-तमिलुभाषयोः परम्परातः उद्भूता इत्यतः भारतीयभाषासु एव अस्याः अक्षरमालायाम् अत्यधिकाः वर्णाः विद्यन्ते । मलयाललिपिः संस्कृतशब्दानां सर्वासां द्राविडभाषाशब्दानाञ्च अभिब्यक्तौ समर्था वर्तते ।
 
== शब्दनिष्पत्तिः ==
मलयालम् इत्येषः शब्दः मलयाल/तमिलुभाषायाः 'माला' - पर्वतः 'एलम्' - प्रदेशः - इत्येताभ्यां पदाभ्यां निष्पन्नः स्यात् । आदौ 'पर्वतप्रदेशः' इत्येषः प्रदेशं (चेरासाम्राज्यम्) निर्दिशति स्म । अग्रे सः एव शब्दः भाषायाः नाम जातम् । मलयालभाषा अलीलम्, मलयालनि, मलयालि, मलीन्, मलियाद् मल्लेयल्ले इत्येतैः शब्दैः अपि निर्दिश्यते ।
 
== उद्विकासः ==
 
मलयालभाषायाः तदीयसाहित्यस्य च उत्पत्तेः विषये विश्वासयोग्यं प्रमाणम् अद्यावधि न प्राप्तमस्ति । तथापि अस्याः साहित्यं सहस्रवर्षीयम् इति अङ्गीक्रियते । अस्याः भाषायाः विषये एतावदेव वक्तुं शक्यते यत् इयं भाषा संस्कृतजन्या न । इयं द्राविडपरिवारस्य सदस्या । किन्तु अद्यावधि इदं न निश्चितं यत् इयं भाषा तमिलुभाषातः विभिन्न काचित् शाखा विद्यते उत मूलद्रविडभाषातः उत्पन्नाः अन्याः दक्षिणभाषाः इव पृथक् अस्तित्वयुता काचित् भाषा इति । तन्नाम तमिलु-मलयालभाषयोः सम्बन्धः माता-पुत्र्योः इव अथवा भगिन्योः इव इत्येतत् विद्यते अस्पष्टम् । भाषाविज्ञानिनः अस्याः समस्यायाः परिहारम् अन्विष्येयुः । इदं निश्चितं यत् मलयालभाषायाः साहित्यस्य अङ्कुरस्य आरम्भावसरे तमिलुभाषासाहित्यं परिपुष्टमासीत् । अतः तमिलुभाषा मलयालभाषायाः स्रोतरूपा इत्यपि वक्तुं शक्यम् । किन्तु १३ शतकस्य अन्तिमभागे मलयालभाषा तमिलेतरभाषाजन्या इति अङ्गीकृतम् ।
 
प्राचीनतमं मलयालपद्यं १२ शतके लिखितं रामचरितम् । इदं संस्कृतवर्णानां परिचयतः पूर्वं रचितमस्ति । किन्तु एतेन आधारेण किमपि निर्णेतुं न शक्यते । आरम्भमलयालसाहित्ये 'पट्टु'नामकानि गीतानि लभ्यन्ते यानि कृषिः प्रेम नायकाः देवाः इत्यादिषु विषयेषु रचितानि सन्ति । एतानि १४ शतकीयानि चम्पुसदृशानि सन्ति यत्र पद्यं गद्यं च मिश्रितं संस्कृतप्रभावोपेतम् पुराणादिसम्बद्धञ्च विद्यन्ते ।
 
१६-१७ शतकयोः तुञ्चत्तु रामानुजन् एझुथचन् इत्येषः तमिलु-वट्टेलुट्टु-लिपेः स्थाने ग्रन्थ-मलयाललिपिम् आरचितवान् । एझुथचन् आधुनिकमलयालभाषायाः पिता इति निर्दिश्यते । अयं भारतीयप्राचीनकाव्ययोः रामायण-महाभारतयोः अनुवादं मलयालभाषया अकरोत् । तदीयम् अध्यात्मरामायणं महाभारतञ्च अद्यत्वे अपि मलयालभाषिहिन्दुगृहेषु धार्मिककार्यक्रमेषु श्रद्धया पठ्यते ।
१५ शतके पृथक् भाषारूपेण मलयालभाषा अङ्गीकृता ।
 
केरले प्रथमं मुद्रितं पुस्तकं हेन्रिहेरिक्सेन लिङ्गमुलबर्तमुलभाषया लिखितं 'डाक्ट्रिना क्रिस्टम्' । अस्य लिप्यनुवादः भाषानुवादश्च मलयालभाषया कृतम् । अस्य मुद्रणं १५७८ तमे वर्षे पोर्चुगीस्जनैः कृतम् ।
 
आङ्ग्लिकन्-अर्चकः बेञ्चमिन् बैले मलयालभाषया उट्टङ्कनं यदा आरब्धवान् तदा १८२१ तमे वर्षे कोट्टायम्प्रदेशे स्थितेन चर्चमिषन्सोसैटिसंस्थया मलयालपुस्तकानां मुद्रणम् आरब्धम् । गद्यानां स्तरारोपणे च तस्य योगदानं महत्त्वपूर्णं वर्तते । जर्मनिदेशस्य स्टग्गर्ट्नगरस्य हर्मन् गण्डर्टः १८४७ तमे वर्षे केरलस्य तलचेरिप्रदेशे 'राज्यसमाचारम्' इति नामिकां प्रथममलयालदिनपत्रिकाम् आरब्धवान् ।
 
== प्रसिद्धाः लेखकाः केचन ==
Unnayi Varyar, whose Nalacharitan Attakkatha is popular even today, was the most prominent poet of the 18th century among not only the Kathakali writers, but also among the classical poets of Kerala. He is often referred to as the Kalidasa of Kerala. Although Kathakali is a dance drama and its literary form should more or less be modeled after the drama, there is nothing more in common between an Attakkatha and Sanskrit drama.
=== उन्नाई वर्यार् ===
अयं १८ शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथक्कली-लेखकेषु अन्यतमः । एतेन लिखिता 'नलचरित अट्टकथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरलस्य कालिदासः इति निर्दिश्यते । कथकली नृत्यरूपकं विद्यते । मलयालभाषायाः अट्टकथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टकथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टकथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टकथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति ।
 
=== कुञ्जन् नम्बियार् ===
'जनानां कविः' इति प्रसिद्धः अयं १८ शतकस्य आदिमभागे आसीत् । अनेन जनानां सांस्कृतिक-धार्मिक-कल्पनाः एव परिवर्तिताः । अयम् अत्युच्चस्थाने विद्यमानं कलां साहित्यञ्च जनानां समीपम् आनयत् । देवालये निवसन्तः नम्बूदिरिब्राह्मणाः नृत्य-नाटक-साहित्यैः सम्बद्धाः आसन् । नायर्जनाः ये अधिकसङ्ख्याकाः आसन् ते सांस्कृतिक-धार्मिककलापैः युक्ताः न आसन् । अस्मिन् समये आगतः कुञ्जन् नम्बियारः यः मन्दिरसेवकजातीयः आसीत् सः 'तुल्लल्'नामकं नूतन-एकाकि-नृत्यम् आविष्कृतवान् । एतन्निमित्तं तेन पञ्चाशदधिकाः कृतयः रचिताः । एताः पौराणिककथायुक्ताः किन्तु आधुनिक-सामाजिक-परिस्थितौ सम्बद्धाः च आसन् । पौराणिककथाव्यक्तयः अत्र सामान्यजनाः जाताः । तस्य शैली विनोदयुक्ता विकत्थनयुक्ता च । सः सामाजिकजागरणम् अकरोत् ।
 
रामपुरत्तु वर्यार् नामकः कश्चन नम्बियारः 'कुचेलवृत्तम्' - कुचेल-सुधाम्नोः वृत्तम् अलिखत् । तेन लिखिता एका एव कृतिः एषा आधुनिकमलयालगीतानां मुकुटमिति मन्यते ।
 
=== स्वातितिरुनालः ===
 
स्वातितिरुनालः(१८२९-१८४७) तिरुवनन्तपुरस्य महाराजः आसीत् । महान् पण्डितः सः बह्वीषु भारतीयभाषासु काव्यात्मकीः सङ्गीतकृतीः अरचयत् । मलयालं, संस्कृतं, तमिल्, तेलुगु, हिन्दी, मराठि इत्येतासु भाषासु सः कृतभूरिपरिश्रमः । सः कालः त्यागराज-मुत्तुस्वामी-श्यामशास्त्रिणां कालः ।
साहित्यदृष्ट्या इरायिम्मन् थम्पि विद्वान् कौय्तम्पुरन् च अस्य आस्थानकवी आस्ताम् । तयोः कृतयः काव्यांशेन सङ्गीतेन च युक्ताः ।
 
== बाह्यशृङ्खला ==
* [http://www.prd.kerala.gov.in/prd2/mala/mala.htm Information on मलयाळम्‌ language at Department of Public Relations, Government of Kerala]
* [http://www.unicode.org/charts/PDF/U0D00.pdf Unicode Code Chart for मलयाळम्‌ (PDF Format)]
* [http://www.ethnologue.org/show_language.asp?code=MJS Ethnologue report for मलयाळम्‌]
 
[[वर्गः:मलयाळभाषा]]
"https://sa.wikipedia.org/wiki/मलयाळम्" इत्यस्माद् प्रतिप्राप्तम्