"नर्मदामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
 
==कृषिः वाणिज्यं च==
नर्मदामण्डलं कृषिप्रधानम् अस्ति । कदलीफलं, कार्पासः, आम्रफलं, कूष्माण्डः च अस्मिन् मण्डले उत्पाद्यमानानि कृष्युत्पादनानि सन्ति । अस्मिन् मण्डले कार्पासः, कदलीफलं, कूष्माण्डः च अधिकतया उत्पाद्यते । कृषिः, वस्त्रोत्पादनं, शर्करोत्पादनं, रासायनिकोद्यमः, आहारसंस्करणं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
 
==वीक्षणीयस्थलानि==
शूलपाणेश्वरवन्यजीविधाम अस्य मण्डलस्य प्रमुखम् आकर्षणम् अस्ति । १९१० वर्षे निर्मितं राजवन्तहर्म्यं ('राजवन्त प्यालेस्') पर्यटकानाम् इष्टतमं वीक्षणीयस्थलम् अस्ति । [[राजपीपळा]]तः २७ किलोमीटर्दूरे स्थितायां केवडियायां शूलपाणेश्वरमन्दिरं, सरदारसरोवरजलबन्धः ('सरदार सरोवर ड्याम्') च अस्ति । वाडियाहर्म्यं ('वाडिया प्यालेस्'), दशावताररणछोडरायमन्दिरं, निजामशाह दरगाह् च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।
 
 
"https://sa.wikipedia.org/wiki/नर्मदामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्